________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५२) ॥ किमुत्तरं ॥ श्रीगुरुरुवाच “ कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यतां नानादेरास्मनो युक्तं नैवात्मा कर्म निर्मितः ॥ १ ॥ प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः। देहात्मभावो नैवेष्टः प्रारब्धं त्यजतामतः ॥ २॥ शरीरस्यापि
प्रारब्धकल्पना भ्रांतिरेव हि ॥ अध्यस्तस्य कुतः
सत्वमसत्यस्य कुतो जनिः ॥ ३ ॥
१५ ॥ अजातस्य कुतो नाशः प्रारब्धमसतः कुतः । ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ॥४॥ तिष्ठत्ययं कथं देहो जडानशंका भवेद्यदि । समाधातुं बाह्यदृष्ट्या प्रारब्धाद्वदति श्रुतिः । ५। उत्पन्नेऽप्यात्म विज्ञाने प्रारब्धं नैव मुंचति ।
For Private and Personal Use Only