________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्तते
( ४८ )
|| समाधानं = " वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः वर्णाश्रमविहीनश्च वर्तते श्रुतिमूर्धनि ॥ शब्दब्रह्माति
""
॥ इति प्रमाणात्कल्पितभेददृष्टेर्ज्ञानिनो
Acharya Shri Kailassagarsuri Gyanmandir
वास्तवी ब्रह्मनिष्ठा न निवर्तते स्वप्रकृद्भेदबुद्धिर्यथा जाग्रति फलाय न भवति तथैव ज्ञानी पुण्यपापाभ्यां न लिप्यतेऽन्यत्राप्येवमेवोक्तं ॥ " समाहितैः कः करणैर्गुणात्मभिर्गुणो भवेन्मे सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं घनैरुपेतैर्विगतैरवेः किम् ॥ इत्यत्रापि ज्ञानिनि विध्यभावोक्तः ॥
१३ ॥ ननु ज्ञानिनो ज्ञानात्पूर्वं पश्चाच्च सशरीरी दर्शनात् ज्ञानाऽज्ञानावस्थयोर्मध्ये को विशेषोऽस्ति ॥ ॥ समाधानं यथा सर्पः त्वचं न जहाति तावत्तच्छेदनेन दुःखी भवति यदा पक्के सति परिविमुंचति तदा
For Private and Personal Use Only