________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४ भगवताप्युक्तम् ॥ “आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥” इत्यत्र यथा स्वात्मा सुखदुःखरागद्वेषादिभिर्न लिप्यते तथा सर्वेपि जीवा नो लिप्यते एवं विशेषाभावो दर्शितः शंकरानंदीगीतायामिति ॥
१०॥ ननु-विशेषज्ञानाभावात्सर्वत्र ब्रह्मदर्शनाञ्च ज्ञानिनः प्रवृत्तिः शुभकर्मणि सर्वदा दृश्यते शुभे कथं न दृश्यते तस्य तत्रापि विशेषाभावदर्शनतुल्यतास्ति ॥ उत्तरं ॥ यथा पंडितो येन केनापराधेनोन्मत्तःसनपि शुद्धमशुद्धं वा शास्त्रोच्चारणमेव करोति न तु निषिद्धे कर्मणि प्रवर्तते तथाऽस्य ज्ञानिनः प्रवृत्तिरपिप्रथमतः शुभकर्मण्येवाभूदधुना पवित्रब्रह्मज्ञानं प्राप्य कथमशुभे प्रवृत्तिर्भवेत् झानस्य पवित्रता " न हि ज्ञानेन सदृशं पवित्रमिह विद्यत" इत्यत्र भगवता प्रतिपादनात् ।।
For Private and Personal Use Only