________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३८ ) तथा द्विविधविक्षेपश्च तत्सर्व बंध इत्युच्यते यदा ज्ञानेनाज्ञानावरणे देहपुत्रादौ रागद्वेषोत्पादिका विक्षेपशक्तिश्चेति सर्व विनश्यति तदा जीवन्मुक्तिर्भवति यदा तु प्रारब्धकर्मभोगेन नश्यति तदा-संसारप्रतीतिहेतुभूता विक्षेपशक्तिरपि प्रतिबंधकाऽभावाद्विनश्यति ततश्च विदेदमुक्तिर्भवति इति जीवन्मुक्तेर्विदेदमुक्तेश्व भेदो ज्ञानिभिरुक्तः ॥
५ ॥ ननु. ब्रह्मज्ञानं अज्ञानावरणे रागदेष देतु विक्षेपशक्तिं च दत्वापि संसारप्रतीतिहेतुभूतां विक्षेपशक्तिं दनने कथं विमुह्यति संसारप्रतीतिकारणे विक्षेपेऽप्यज्ञान कार्यत्वस्य तुल्यत्वात् ॥ समाधानं ॥ येन प्रारब्धकर्मणा देदोऽयं विनिर्मितोऽभूत् तदेव कर्म ज्ञानिने भोग्यप्रदातुं संसारप्रतीतिहेतुभूतविक्षेपशक्तिनाशे प्रतिबंधकं भवति यदा ज्ञानिने भोग्यं दत्वा प्रारब्धकर्म विनश्यति तदा प्रतिबंधनाशे संसारप्रतिभास कारणीभूता विक्षेपशक्तिरपि कतकरेणुवत्स्वयं विनश्यति - तदा सो जीवन्मुक्त एवं विदेहमोक्षं तुखेन प्राप्नोति ॥
For Private and Personal Use Only