________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८ ) ___ २॥ यक्ष उवाच-भो कुमार तर्हि भगवति श्रीकृष्णे कामकथायाः कथनस्य कोऽभिप्रायः तन्निश्चित्य ब्रूहि ॥ राजपुत्र उवाच भो गुणज्ञ योग्यो योग्येन संबध्यते इति न्यायात्कामातुराणां विमोक्षाय श्रीकृष्णेऽपि कामानुरागित्वमुक्ता तादृशीकथायामनुरागिणां मनांसि समाकर्षयितुं कामलोभादीनां निवृत्तये च कामे लोभे सविस्तारं दोषाणां दर्शयित्वा पुनश्च सुभकर्मणि प्रवृत्तये सुकर्मणामुत्तमफलमपि प्रतिपाद्य पश्चात्सकामे कर्मणि “ क्षीणे पुण्ये मर्त्यलोकं विशति ॥” एवं दर्शयित्वा सकाम कर्मभ्यो निवृत्तिं संपादयित्वा निष्कामे कर्मणि प्रवृत्तिद्वारांऽतःकरणस्य शुद्धिं प्राप्य ज्ञानेन मोक्षं कामातुरा अपि प्राप्नुवंति. अस्मिनर्थे श्रीकृष्ण विश्वामित्र श्रीशंकर कमलासन बृहस्पति चंद्रसूर्येन्द्रादीनां कामातुरताकथनस्याभिप्रायं बोध्यं ॥
For Private and Personal Use Only