________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
( २६ )
॥ भो राजसूनो हे सुजन. गीताया ध्याने ॥ "कृष्णं वंदे जगद्गुरुं ॥ " अत्र कृष्णस्य भगवतो जगद्गुरुरित्युक्तं अन्यत्र तु ॥ स्नान व्याकुलयोषद्वस्त्रमुपादायागमुपारूढं ॥ इत्युक्तं एवं सति उभयोविरुद्धवाक्ययोस्तु का गतिर्भवति तत्प्रमाणपूर्वकं विरोधप्रहारं कुरु ॥ राजकुमार उवाच - भो यक्ष महात्मन्तस्यामेव गीतायां भगवता वासुदेवेन ॥ प्रतिपादितं " अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामंत एव च " ॥ इत्यत्र यदेव स्वयं प्रतिपादितं तदेव श्रद्धयाऽऽश्रयणीयं ॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ इत्येवं संजयेनोक्तं मया श्रीकृष्णस्य स्वरूपं दृष्टं ईदृग्स्वरूपं कामातुरस्य कदापि न भवति तस्माद्ब्रह्मात्मस्वरूपे देवैरपि ध्यातुं योग्ये श्रीकृष्णे मनसा वाचा भक्तिं कृत्वा मुक्तोभव. श्रीकृष्णस्य ब्रह्मत्वमुक्तम् i शिवाचकः शब्दो णश्च निर्वृतिः कीर्तिता । तयोरैक्यं परंब्रह्म कृष्ण इत्यभिधीयते ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only