________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८ )
॥ समाधानं सदसद्विवेका विनश्यत्यविवेकः वैराग्येण विवेको भवति विषयेषु या दोषदृष्टिः सैव वैराग्यस्य मुख्यकारणं भवति ॥
९ || प्रश्नः - कः सदसद्विवेकः की वैराग्यं का च दोषदृष्टिः ॥ उत्तरं यो देहे सर्ववृत्तीनां ज्ञाता स सदस्ति देहश्वासदिति ज्ञानमेव सदसद्विवेको भवति विषयेषु रागाभावो वैराग्यं विषयेषु दुःखबुद्धिर्नाशबुद्धिश्च सा दोषदृष्टिज्ञेया ॥
१० ॥ प्रश्नः - विवेकवैराग्यदोषदृष्टीनां प्राप्तिः कथं भवति तेषां प्राप्तौ किंनिमित्तं निमित्तस्यापि किं निमित्तं भवति ॥ समाधानं विवेकवैराग्यदोषदृष्टीनां प्राप्तिरीश्वरानुग्रहादेव भवति ईश्वरानुग्रहकारणं च मनसा कायेन वाचा श्रद्धापूर्वक वेदोक्त तदाज्ञा परिपालनमिति तत्कारणं च सद्भिरेव निरंतरं सहवास एव ॥
११ ॥ प्रश्नः - कीदृगीश्वरस्य स्वरूपमस्ति कीदृशी तस्य भक्तिर्भवति भक्तेश्च कारणीभूताः संतः कीदृशाः
For Private and Personal Use Only