________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६ ) "बुद्धिर्बुद्धिमतामस्मीति " स्मृतेः निर्विकल्पता या सैवैकाग्रता देहाभिमानमेव जन्म भवति॥
६ ॥ प्रश्नः- स्वात्मज्ञानाऽलाभे को हेतुरस्ति तल्लाभस्यापि किं कारणं-कस्माच जन्म भवति ॥ उत्तरं विवेकाऽभाव एवात्मज्ञानस्याप्राप्तौ कारणम् आत्मज्ञानप्राप्तौ च कारणं तत्प्राप्तेः दृढतराकांक्षा "ज्ञानकारणसामग्रयां भक्तिरेव गरीयसी॥ भक्तिः परमानुरक्तिः स्वस्वरूपानुसंधायनीति" श्रीशंकर भगवडाक्यं । कर्तृत्वाभिमानार जन्मनः प्राप्तिर्भवति ॥
७॥ ननु को विलेकाभावः कश्चात्मा कर्तृत्वाभिमानं च किं. उत्तरं-देहीदेहयोःप्रथक्जानाभावोऽ विवेको भवति अंतःकरणादीनां जाग्रत्स्वप्नयोर्भावं सुषुप्तावभावं च जीवो येन बिजानाति सैवात्मा भवति ॥ “येन शब्द, रसं, रूपं, गंध, जानासि राघव, ॥ तमात्मानं परं ब्रह्म जानीहि परमेश्वरं ॥” इति वचनाच. ॥ कर्तृत्वाभिमानं तदेव भवति यत्कर्तृत्वाविज्ञानजन्यदृढवासनाऽस्ति ॥ ___८॥ प्रश्नः-अविवेकनाशहेतुश्च कोऽस्ति कथं च विवेको जायते अविवेक नाशहेतोरपि हेतुश्च को वास्ति तस्य स्वरूपं ब्रूहि
For Private and Personal Use Only