________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२ )
भो सुने यदि भवान् शुद्धबुद्धिमानस्ति तर्ह्यलं विज्ञानायैतावताऽन्यथातु बहुभिरुपदेशैश्च किं भवत्यधुना तुभ्यं नमोऽस्तु गच्छाम्यहं यथाऽऽगता इत्युक्ता जनकेन संपूजिता दृष्टथगोचराऽभवदिति ॥
इति एकोनविंश कमलं समाप्तम् हरिः ॐ तत् सत् ॥
१ ॥ ॐ अथ विंशतिकमले यक्ष राजपुत्रयोः संवादः ॥
कदाचित्कस्मिंश्चिद्वने यक्षेण निगृहीतो भ्रात्रा सह राजपुत्रो यक्षाय वाक्यमब्रवीत् भो यक्ष मे भ्रातरं त्यज मामपि त्यज तदर्थे यदिच्छसि तद्ददाम्यहमिति श्रुत्वा यक्ष उवाच - यदि मे प्रभानामुत्तरं ददासि तदा सभ्रातरं त्वामुत्सृजाम्यहं राजपुत्रउवाच - भो यक्ष यत्पृच्छसि तदुत्तरं ददामीति राजपुत्रेणोक्तः सन् यक्ष उवाच - भो राजकुमार ॥
२ || आकाशादपि विस्तीर्ण किं भवति परमाणोरपि सूक्ष्मं च किमस्ति कीदृक् तस्य रूपं तत्कुत्र तिष्ठति ॥ उत्तरं ॥ ब्रह्मैवाऽऽकाशाद्विस्तीर्णमस्ति तदेव परमाणोरपि सूक्ष्ममस्ति
For Private and Personal Use Only