________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) अधुना प्रत्युत्तरं शृणु तत्पदमस्य, जगतः कारणमस्ति तस्याद्यं मध्वमवसानं च नास्त्येव देश काल वस्तु परिच्छेदशून्यं सत्यज्ञानानंतस्वरूपं च तदस्ति तदेवास्य जगतोऽधिष्ठानं भवति यत्रा दर्पणे नगरं प्रतिबिति तथैव तत्र विश्वं प्रतिर्विवति तदेव ज्ञात्वा मुमुक्षवो जीवन्मुक्ता भवति यथा दर्पणे दृष्टे तद्गत प्रतिबिंबेषु संदेहो न भवति न च तेषां ग्रहणे संकल्पो भवति तथैव तत्पदं ज्ञात्वा न तद्गतजगति ज्ञातव्यमवशिष्यते सर्वसंदेहाद्विमुक्तो भवति न च तस्य प्राप्तव्यमवशिष्यते ॥
३॥ तत्पदं च अज्ञातमप्यस्ति यदि तस्य ज्ञाता तदन्यो जडो भवेत्तन्न संभवति जडत्वात् घटवत् ज्ञातृत्वं तत्र दुर्घटमस्ति तदन्यश्चेतनो ज्ञाताचेत्तर्हि तस्यापि ज्ञातेत्यनवस्था स्यात्स्वयमेव ज्ञाता चेत्तर्हि स्वयमेव ज्ञानक्रियायाः कर्ता स्वयं कर्म तयुगलमेकस्मिन् विरोधात्सहवासमेव न लभते ततश्च तत्पदमवेद्यमस्ति तस्मादहमपि शास्त्रादेव विजानामि न तु तत्पदं मया प्रत्यक्षेणानुभूतमस्तीति प्रतिपाद्य सो मुनिः पुनर्वचनादुपरराम ॥
For Private and Personal Use Only