________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ ॥ इदमेव न्यायानुसारेण मोक्षस्य स्वरूपं प्रतिपादितम् ॥ * ॥
तेषां मतमपि समीचीनं न नवति तथाहि त्वं शृणु ॥
ईश्वरस्य नित्येच्छानित्यप्रयत्नयोश्चांगीकारे प्रलयो न स्यान्न वा कस्यचिन्मुक्तिरपि स्यात्। किं च आत्मनो नानत्वस्य व्यापकत्वस्य च प्रतिपादनादपि तन्मतं विरसमेव नाति।
६॥ तथा हि यदि व्यापका नाना चात्मानो जवेयुस्तर्हि नानाऽऽत्मनां सर्वशरीरेषु व्यापकत्वादे. वांतर्बहिर्विजागो न स्यादिमानि स्थूलवस्तूनि तव संति वा मम संति सूक्ष्मवस्तूनि मम संत्यस्य न संतीति। तथाऽऽत्मनो नित्यत्वकथनादपि पूर्वकर्माण्यपि कस्य संति कस्य न संतीति निर्णयो ब्रह्मणापि कर्तुं न शक्यते। एवं यदाऽस्य मते कश्चिन्मुक्तो नवतदा साधनं विनैव सर्वस्य मुक्तिरपि नवितव्या । तथैव यदा काश्चतु दुष्कृतेन नरकं व्रजति तदा तेन सह सर्वेषां नरकपतनमपि दुर्वारमेव जविष्यति। तस्मादेव तन्मतमसारमेव ज्ञातव्यं ।
For Private and Personal Use Only