________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥अथ सप्तदशकमलेऽनिर्वचनीयस्वप्नयोवर्णन।*
अद्वैते स्थिरमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थी भूमिकामिताः ।।
ननु साक्षिणः स्वप्नाधिष्ठानत्वाभावात्कथमा. त्मनि स्वप्नं कल्पितं पश्यंति तमंतरेण कथं जाग्रतं कल्पितं पश्यति ॥ तथाहि ॥ यत्कल्पितस्याधिष्ठानं भवति तदधिष्ठानं कल्पितेन सह संबद्धं भवति यत्रा शुक्तौ कल्पितं रजतं तद्रजतमधिष्ठानस्येदमंशेन सं. बद्धं सत्प्रतीयते (इदंरजतमिति ) यथा वाऽऽत्मनि कल्पितं कर्तृत्वादिकं तदप्यऽधिष्ठानेनात्मना संबद्धं सत्प्रतीयते ( अहंकर्ता ) इति तथैव यदि साक्ष्याऽऽत्मनि स्वप्नगतगजाश्वादयोऽपि कल्पिता भवेयु. स्तर्हि (मयिगजः) (अइंगजः)
For Private and Personal Use Only