________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६॥समाधानं यथा स्वप्ने केनचित्पुरुषेणस्वस्थ्याः सकाशात्पुत्रोजात इति दृश्यते कुलाल व्यापारान्मृदो घट उत्पन्नो दृष्टः तदा स्याः कारणात्वं पुत्रे कार्यता मृदि कारणता घटे च कार्यताऽविद्याबलात्दृश्यते तद्वदत्रापि जायदवस्थायां कस्य कारणतां कस्यचित्तु कार्यतामविद्याबलात्सर्वेऽपि जनाः पश्यंति तत्तु नैव वास्तवमस्ति ॥
१७ ॥ तस्माद्वा एतस्मादात्मन इति श्रुतिर्या त्वयोक्ता तस्या मंदबुद्धीनां ध्यानार्थे तात्पर्यमस्ति न तु कारणकार्यभावे तात्पर्यमस्ति यदि त्वं दुराग्रहेण कार्यकारणभावे तात्पर्यमस्तीति वदसि तर्हि “तहह्माऽपूर्वमनपरमिति" श्रुतेविरोधः स्यात्तस्मात्कार्यस्य जगतो ब्रह्मणा कारणेनाभेदोस्ति तद्ब्रह्माहमस्मीति मंदबुद्धिरपि ध्यात्वा मुक्तिमवाप्नोतीत्यस्मिनर्थेऽभिप्रायमस्ति वेदांते कार्यकारणभावस्यानंगीकारात् "ननिरोधो न चोत्पत्ति' रिति प्रमाणाच॥ इति षोडश कमलं समाप्तम् हरिः ॐ तत्सत् ॥
For Private and Personal Use Only