________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलाऽविद्याजन्यत्वादेव जाग्रतो व्यवहारकत्वं निद्रादोषसहरुद्वा प्रमाणदोषसहकृद्वाऽविद्याजन्यत्वास्वप्नस्य रज्जुसदेश्च प्रातिभासकसत्ताकत्वं भवति तस्मात्सदोषनिर्दोषाविद्याजन्यत्वादेव तयोर्भेद एव भवति नत्वभेद इति. सिद्धांते तु जाग्रत्पदार्थाः स्वप्ने न प्रतीयंते स्वप्नपदार्थाअपि जाग्रति नैव प्रतीयंते तत एव द्वौ पदार्थों समौ द्वेऽवस्थे च समाने भवतः तयोस्तु न किंचिद्भेदः ॥
१३ ॥ ननु जाग्रति पदार्था ये संति ते प्रतिदिनमनुभूयंते स्वप्नपदार्थास्तु न तथाप्रतिस्वप्नेऽनुभूयंते तस्मात्तयोर्जाग्रत्स्वप्नयोः कथं समानताऽस्तीतिचेत्तत्र.
॥समाधानं-जाग्रत्पदार्थाः प्रतिदिवसे दश्यते तदनुचितं यथा सद्योजातस्वप्नपदार्थेषु स्वप्नकाले प्रत्यभिज्ञाज्ञानविषयताऽविद्यया भवति तथा जाग्रत्यप्यविद्याबलादेव प्रत्यभिज्ञाज्ञानविषयता भवत्यत एव जना जानंति ये बाल्ये पितादयो दृष्टाअभवन्तेऽद्यावधि दृश्यते न चैवमस्ति यथा या गंगा बाल्ये दृष्टा सैवेयमधुनापि मया दृश्यते येयं दीपशिखा सायं. काले दृष्टा सैवेयं राज्यंते मया दृश्यते तत्तु माया माहात्म्यमेव ॥
For Private and Personal Use Only