________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) ३ * ॥ अथ न्यायमते यथा मोक्ष उक्तस्तं
दर्शयिष्यामः ॥ॐ॥
यदा तु देहादिभ्योऽसंगोऽस्मीति ज्ञानं यस्य जीवस्य भवति तस्यैव जीवस्य मोक्षो भवति। नान्य. स्य ॥ अत एव सांख्यमतस्येव नाना जीवा एव। तेषां मध्ये यस्य यदाऽऽत्मा देहाद्भिन्न इति ज्ञानेन देहभ्रांतिनश्यति ततो रागद्वेषादयोऽपि विनश्यति ततो धर्माधर्मयोः प्रवृतिनं भवति ततश्च शरीरप्राप्तेरवसर एव न मिलति भोगाच्च प्रारब्धकर्मणो विनाशो भवति तस्मात् शरीरं नेत्रं त्वक् रसना श्रोत्रं घ्राणं मनः षड्विषयाः षड्ज्ञानानि सुखं दुःखमित्येकविं. शतिदुःखानां विनाश एव मोक्षो भवति ।
___४॥शरीरस्यापि दुःखहेतुत्वात् दुःखरूपत्वमुक्तं स्वगादिसुखमपि विनाशभयतः दुःखरूपमेव॥ श्रोत्रस्याकाशरूपत्वान्नित्यत्वं मनश्चापि नित्यं भवति तयोविनाशो यद्यपि न संभवति तथापि मोक्षकाले करणगोलकस्य त्वगिद्रियस्य च विनाशात्सुषुप्तिवत्संयोगानावात् दुःखहेतू ते श्रोत्रमनसी न भवतः।
For Private and Personal Use Only