________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४)
७ ॥ ननु स्वप्ने महत्कालो महद्दशश्चापि दृश्यते ताभ्यां निमित्तकारण देशकालाभ्यामुत्पत्तिमत्वात्स्व नपदार्था न मिथ्यास्तथा जाग्रादपि न मिथ्याभवति तस्मात्तवाऽद्वैतमतं कथं संभवति ॥
॥ उत्तरं - ये पदार्थाः सहोत्पन्ना भवंति तेषां मिथः कारणकार्यभावसंबंधो नैव संभवति यथा सोत्पन्नौ भ्रातरौ परस्परं जन्यजनको नैव भवतः तथा स्वप्नेपि देशकालपदार्थानां सहोत्पन्नानां कथं कार्यकारणभावो भवति किंतु न संभवति तदेव का रणं यत्पूर्वं स्यात्तदेव च कार्यं यत्तु पश्चाद्दश्यतेऽत्रस्वप्ने सदैव सर्वे दृष्टिगोचरत्वान्न परस्परं कार्यकारणभावं प्राप्नुवंति तस्मादकारणोत्पन्नत्वादेव स्वप्नपदार्थ मिथ्या एव भवतीति सिद्धं ॥
८ ॥ किंच यथा स्वप्ने पितामातापुत्रपौत्रादयो नरैः सदैवोत्पन्ना दृश्यंते सदैव तत्क्षणे चोत्पद्यंते ते पूर्वकालिन एव संती ति प्रत्यभिज्ञाज्ञान विषयाश्चापिभवति
For Private and Personal Use Only