________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ यतः कोऽपि कस्मान्न पृच्छति सतोऽपि न बहिनिर्गमनं सिद्ध्यति किंतु तत्रैव मिथ्यादर्शनमस्ति. किं च स्वप्नकाले रात्री काश्यां सुप्तः सन् स्वस्य च मध्यान्हे हरिद्वारे पद्भ्यां गमनं हस्तेभोजनं वाचा मित्रेण सह संभा. षणं चानुभवति ततोऽपि नो सत्यमिति यथा स्वप्ने मुहुर्ताते संवत्सरशतभ्रमः इति वचनाचाऽपिसर्वेस्वप्नपदार्था मिथ्याः ॥
६॥ ननु यथा स्वप्नपदार्था उत्पत्तिमत्वात् ज्ञानविषयत्वाच्चापि मिथ्या भवंति तथा जाप्रत्पदार्था अपि मिथ्याः संतीति चेतहि जाग्रत्पदा Cःस्वस्वकारणेभ्योऽप्युत्पत्तिमत्वात्सत्या एध तद्दप्टांतेन स्वप्नपदार्था अपि उत्पत्तिमत्वादेव न मिथ्या भवंति तत्र किं बाधकमस्ति ।
समाधानं-ये पदार्थाः कारणमंतरेणोत्पद्यते ते खपुष्पवन्मिथ्या भवंति तथा सति स्वप्ने समुद्रनदी पर्वतादिग्रामा ये प्रतीयते तेषां योग्यदेशकालयोरभा वत्वादेव मिथ्यावे कस्यापि विवेकिनः संदेहो नास्ति त्वमप्येवं निश्चयं कुरु ॥
For Private and Personal Use Only