SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४०) ३ ॥ अन्यत्तु यदुक्तं स्वप्ने जाग्रत्वदायीनां स्मृतिर्भवति तदपि तत्र कथनं न संभवति स्वप्नपदार्थानां प्रत्यक्षज्ञानविषयत्वात् ॥ न तत्र रथा न रथयोगाः पंथानो भवत्यथ रथानूरथयोगान्यथः सृजते ॥ इत्यनया श्रुत्या नवीनानां पदार्थानामुत्पत्तिः कथनाच्च तेषामेव प्रत्यक्षज्ञानं भवति न स्मृतिः स्मृतेश्च परोक्षार्थविषयत्वादियं मे माताऽयं मे भ्राताऽयं पितेति प्रत्यक्षदर्शनाच्च स्वप्नपदार्था मिथ्या एव तद्दृष्टांतेन जाग्रदपि मिथ्या न सत्यं ॥ ४ ॥ ननु स्वप्नकाले लिंगशरीरं देहादबहिर्विनिर्गत्य जाग्रति पदार्थानेव पश्यति ततोऽपि जायमिथ्या नास्ति स्वप्नपदार्थानां सत्यत्वात् ॥ इति चेतत्राह — ॥ समाधानं - स्वप्नकाले लिंगदहस्य बहिर्निर्गमनमेव न संभवति मरणप्रसंगात् सर्वैरपि सप्राणो देहोयं स्वप्नवतः पुरुषस्य दृश्यते प्राणं विना लिंगदेदस्य निर्गमनासंभवाच्च इतोऽपि स्वप्ने पदार्थानां मिथ्याज्ञानं तत्दृष्टांतेन जाग्रति सर्वेपदार्था अनिर्वचनिया एव ॥ ५ ॥ यदि बहिर्निर्गत्य जाग्रति दर्शनं स्यात्तर्हि सर्वे सर्वैरपि प्रतिदिनं प्रष्टव्या भवेयुः तव मम च रात्रौ स्वप्ने समागमोऽभूदिति ॥ For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy