________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३८) ॥ श्रीगुरुत्वाच-यदुक्तं जाग्रत्व्यवहारकसत्ताक स्प्ले प्रातिमासकसत्ताकं तयोरैक्यताऽभावाद्भवति युगस्य मित्रत्वमिति तन संभवति स्वप्नस्यापि खकाले व्यवहारसाधकत्वात् व्यवहारकसत्ताकत्वं तदुक्तं स्वकाले सद्वद्भाति प्रबोधेऽसद्वद्भवेदिति ॥
२ ॥ किंच यच्चोक्तं स्वप्ने व्यवहारकपदार्थानां सत्यानामेव स्मृतिज्ञानमपि सत्यमेव भवति तत्दृष्टांतेन जाग्रत्सत्यमस्तीति तन्न समीचीनं “ अन्योन्याश्रयत्वात् ” स्मृतेः सत्यत्वे जाग्रत्सत्यत्वस्यापेक्षा जाग्रत्सत्यत्वे तु स्मृतिसत्यत्वस्याऽपेक्षति ततश्च पुगुलमेव मिथ्या भवति. यदुक्तं जाग्रति ये ज्ञातपदार्थाः संति तेषामेव स्वप्ने स्मृतिर्भवतीति तत्तु ॥ ॥ स्वमपि खादति खंडिति मीक्ष्यते निजशिरोनयनेन करार्पितम् ॥ किमपि दुर्घटमस्य न विद्यते यदि विमूढमतिर्भवतिस्वयमित्यत्र निरस्तत्वादेव न संभवति ॥
For Private and Personal Use Only