________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न च श्रूयतेऽऽधारज्ञानान्निवृत्तिर्भवति तत्र किं कारणं कि माधाराधिष्ठानो भिन्नो वाऽभिन्नो वा आये तयोर्मेंदो वक्तव्यः द्वितीये अधिष्ठान शब्दवदाधारझानेन कल्पितस्य निवृत्तिर्भवतीति कथं न श्रूयते ॥
१३॥ श्रीगुरुरुवाच तत्र भिन्नपक्षमाश्रित्य सिद्वांतिराह यथा रज्जुरियमिति पदयुगलमस्ति तत्रे यमिति पदं सामान्यवाचकं अयं सर्प इति सर्पण सह दर्शनात्तत्रेयमिति पदमाधारवाचकं भवति तस्याधारस्य ज्ञानेन सर्पस्य निवृत्तिनं भवति रज्जु. रिति पदं विशेषवाचकं भवति तस्य वाच्यम्याधिष्ठानपदवाच्यताऽस्ति रज्जुरियमिति विशेषज्ञानस्य भ्रमनिवर्तकत्वादयमेव द्वयोर्भेदो दृष्टांते भवति ।।
१४ ॥ दाष्टीतकेऽपि द्वयोर्भेद एवमस्ति ब्रह्मास्मि ब्राह्मणोहमस्मीति सत्पदवाच्यता ब्रह्मणि ब्राह्मणे च दर्शनादहमस्मीतिपदस्याधारवाचकत्वमस्ति
For Private and Personal Use Only