________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) ततो भिन्नाधिष्ठानमेव भवति रज्जुज्ञानेन सर्पज्ञानस्य निवृत्तिश्च केनापि प्रकारेण न संभवति भिन्नाधिष्ठानत्वात्"
१०॥ समाधानं-यदा मंदांधकारऽतःकरणस्य वृत्तित्रद्वारा रज्जु समानाकारा भवति तदा इदमाकारांतःकरणवृत्यविच्छिन्नचेतनस्थाऽविद्या तमोगुणेन सर्पाकारेण परिणमते सत्वगुणेन सर्पस्य ज्ञानाकारण च परिशमतेऽतः सर्पस्य ज्ञानरय वाविद्योपादानकारणं चेतनस्याधिष्ठानत्वात् विवर्तोपादानकारणत्वं तथा सति रज्जुप्रदेशे रज्वविच्छिन्नचेतनमेव वृत्यविच्छिन्नचेतनं सर्पसर्पज्ञानयोरधिष्ठानमेव तस्माद्रज्जुज्ञानेन सर्पस्य सर्पज्ञानस्य च निवृत्तिर्भवत्येव रज्जुदेशे वृस्यवच्छिन्नचेतनस्य सर्पसर्पज्ञानयोंईयोरप्यधिठानत्वात् ॥
११॥ यत्र चैकस्यां रज्वां दशपुरुषाणां सपोऽयं दंडोऽयं, मालेयं, भूरेखेयमीयं जलधारा का प्रथक् प्रथक् ज्ञानं भवति किंवा सर्वेषां सर्पज्ञानं भवेत्तत्र यस्य रज्जुज्ञानं भवति तदा तस्यैव मिथ्या सर्पस्य निवृत्तिर्भवति, न तु सर्वेषां भ्रांतिनश्यति ।
For Private and Personal Use Only