________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४)
श्रीगुरुरुवाच-हे सोम्य विषयविद्यमाने सात विषयस्य ज्ञानं भवति विषयाभावे ज्ञानस्याप्यभावो भवतीतिनियमात रज्जुज्ञाने सति सर्पविषयस्याभावात्स्वयमेव सर्पज्ञानविनश्यति यथा का. ष्ठविषयनाशे वन्देर पि विनाशो भवति तद्वदत्रापिज्ञेयम्
॥ ननु तथापि सर्पज्ञानस्य कल्पितत्वादेवाधिष्ठानज्ञानमंतरेण कथं निवृत्तिः स्यादिति चेत.
॥समाधानं-निवृतिर्द्विविधा भवति एकाऽत्यतानिवृत्तिः अपरा तु कारणे कार्यस्य लयरूपा निवृत्तिर्भवति तयोर्या कारणेनाज्ञानेन सह कार्यस्य निवृत्तिः साऽत्यंतनिवृत्तिः ॥ सेयं निवृत्तिस्तु अधिष्ठानज्ञानादेव भवति तथापि लयरूपा निवृत्तिश्च अधिष्ठा. नज्ञानेन विनापि भवति यथा सुषुप्तौ प्रलये वा पदार्थानामज्ञाने विलयो ज्ञानमंतरेणापि भवति यथा प्रलये कर्माभावो निमित्तं तथाऽत्र साभावो निमित्तमिति ज्ञातव्यं ॥
For Private and Personal Use Only