________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतोपि मिथ्यैवाऽसत्ख्यातिरिति किं च एककालेंऽतःकरणस्य विज्ञानं नैव नवति तस्माद ख्यातिरसिद्धा नवतीति मंतव्यम् ॥
यतश्चतुर्णी ख्यातीनां कथनमुक्तप्रकारेणानादर. णीयमत एव यापंचमीख्यातिरनिर्वचनीयनामिका नवति सैवादरणीया तत्कथनमपिसविस्तारेणैवमास्त त्वं सावधानेन मनसा श्रवणं कुरु. साचानिर्वचनी यख्यातिः सदसद्विलक्षणरूपा नवतीति दर्शयिष्यामः
इति चतुर्दशकमलं समाप्तं हरिः ॐ॥ * १॥ अथ पंचदशकमले अनिर्वचनीयख्यातेर्वर्णनं।*
ॐ यत्र घटे घटस्य ज्ञानं भवति तत्रांतःकरणस्य वृत्तिर्नेत्रद्वाराबहिर्निर्गत्य घट समानाकारं प्राप्य घटस्थमावरणं नाशयित्वा घटोऽमिति घटं विजानाति तत्र घट ज्ञाने प्रकाशोऽपि सहकारी नवति प्रकाशं विना घटादिज्ञानं न संभवति यत्र तु रज्जौ सर्पनमो नवति तत्रांतःकरणस्य वृत्तिनेत्रद्वारा निर्गत्य रज्जुदेशं प्राप्यापि तिमिरादिप्रतिबंधके सति रज्जुसामान्याकारा न भवति ॥
For Private and Personal Use Only