________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०)
यथा बंध्यापुत्रादीनां भानं न भवत्यत एवा सत्यं तत्ववाक्यमिदं यदसतो दर्शनं कथनं चेति सर्वस्य शून्यवांगीकारे तव वक्त्तुरभावात् वदतो व्याघातः ॥
२ ॥ बुद्धानुयायिनो योगाचारस्य मते चैवमस्ति प्रतिक्षणे नाशमुत्पत्तिं चाप्नोति या बुद्धिर्नाम विज्ञानं तदेव सर्वरूपमस्ति ततो रज्जुदेशेऽन्यत्र वा सर्पस्तु कापि नास्ति किं तु क्षणिकविज्ञानरूपा या बुद्धिस्तस्या सर्पाकारण भानं कथनं च साऽऽत्मख्यातिर्भवति तत्कथनमप्यनुचितं यतो यावदधिष्ठानस्य ज्ञानं न भवति तावत्कालपर्यंतं सर्पभ्रमो न निवर्तते यदि क्षणिकं भवेत् तदा तु रज्जुज्ञानं विनापि क्षणकाले स्वयमेव नश्येत् यतो रज्जुज्ञानं विना बहुकालपर्यंतमपि न नश्यति ततोऽस्यापि कथनमसत्यमिदं यत्सर्पस्य क्षणमात्र भानमिति ॥
३|| प्राचीन नैयायिका वैशेषिकाचैवं वदंति यथा पित्तदोषात् जठराम्रो पाचनशक्तिवृद्धिं प्राप्य वहुभोजनमपि पचति तथा नेत्रंद्रियमपि तिमिरपितकामलादि दोषादधिकदर्शनशतिं प्राप्य दूर
For Private and Personal Use Only