________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४॥
१९१
अमिचिमिशसिभ्यः कः ॥ १६४ ॥ अन्त्रम् । चित्रम् । मित्रम् । शस्त्रम् ॥ १६४ ॥
पुवो ह्रस्वश्च ॥ १६५॥ पुत्रः ॥ १६५ ॥ स्त्यायतेईट् ॥ १६६ ॥ स्त्री ॥ १६६ ॥
गुधवीपचिवचियमिसदिक्षदिभ्यः स्त्रः ॥ १६७॥ गोत्रम् । गोत्रा। धर्तीम् । वेत्रम् । पक्तम् । वक्तम् । यन्त्रम् । सत्रम् । क्षत्रम् ॥ १६७॥
S
( १.६४ ) अमति जानाति प्राप्नोति येन तत् अन्त्रम् । उदरनाड़ी वा। चीयते तत चित्रम् । चित्रा । नक्षत्रं वा । चैत्रो मासः । मिनोति मान्य करोतीति मित्रम् । सुहद्वा । नित्यन्नपंसकम् । क्वचित पंल्लिङ्गो वा। शन्नो मित्र इत्यादिषु । अम्मित्रम् । इयम्मित्रम् । शाभनानि मित्राण्यस्याः सन्तीति सुमित्रा तस्या अपत्यं सौमित्रिः। बाहादित्वादि । शंसति हिनस्तोति येन तत् शस्त्रम् । आयुधं वा ॥
( १६५ ) पुनाति पवित्रं करोतीति पुत्रः । आत्मजा वा ॥
( १६६ ) स्त्यायति शब्दयति गुणान् गहाति वा सा स्त्री । प्रसिद्धा भाऱ्या वा।
(१६० ) गवते शब्द्यत इति गोत्रम्। नाम। वंशो वा। गोत्रा पृथिवी। धरतीति धम् । गृहं वा । वेति गच्छतोति वेत्रम्। लताविशेषो वा । पचति येन यत्र वा तत् पक्तम् । गार्हपत्यं वा । वक्ति येन तद् वक्तम् । मुखं वा। यच्छति उपरमति येन तद्यन्त्रम् । कलाविशेषो वा । सीदन्ति यति सत्रम् । यज्ञो वा । सतः सत्पुरुषान त्रायते तत् समिति व्युत्पत्यन्तरम् । क्षद सौत्रो धातुः । क्षदति रक्षतीति क्षत्रम् । वर्णभेदो वा ।क्षतात्तायत इत्यपि ॥
HITADA
For Private And Personal Use Only