________________
Shri Mahavir Jain Aradhana Kendra
૧૧૬
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकेोषः ॥
भवसृस्तुभ्य इमनिच् ॥ १४८ ॥ हरिमा | भरिमा ।
धरिमा । सरिमा । स्तरिमा । शरिमा ॥ १४८ ॥
1
जनिमृङ्भ्या मिमनिन् ॥ १४९ ॥ जनिमा | मरिमा ॥ १४९ ॥ वेत्रः सर्वत्र ॥ १५० ॥ वेमा ॥ १५० ॥ नामन्सीमन् व्योमनोमन्लोमन् पाप्मन्ध्यामन् ॥ १५१ ॥
( १४८ ) छन्दसीति वर्तते । हरति स हरिमा । कालो वा । भर्तु योग्यो भरिमा | कुटुम्बं वा । धियत इति धरिमा । रूपं वा । सरतीति सरिमा । वायुर्वा । स्तीर्यत आच्छाद्यत इति स्तरिमा । तल्पं वा । शृणातीति शरिमा । प्रसवो वा ॥
( १४६ ) छन्दसीत्यनुवर्तते । जायत इति जनिमा | जन्म । म्रियत इति मरिमा मृत्युः ॥
- ( १५० ) वयति वस्त्राणि येन स वेमा । तन्तुवायदण्डः । वस्त्रनिर्माणसामग्री वा । सर्वत्र वचनाच्छन्दसीति निवृत्तम् ||
( १५१ ) सप्तामी मनिनन्ता निपात्यन्ते । म्नायतेऽभ्यस्यते येन तत् नाम संज्ञा । स्वार्थे वार्तिकेन घेयट् । नामैव नामधेयम् । सिनोति बध्नासीति सोमा । अवधिर्वा । व्ययति संवृणोतीति व्योम | अन्तरिक्षं वा । रोति शब्दयतीति रोम । लूयते द्विद्यते तल्लोम । गाचक्रेशा वा पिवतीति पाप्मा । किल्बिषं वा । धातोः पुक् । ध्यायते स ध्यामा परिमाणं । तेजो वा । बाहुलकात् - यक्षयति पूजयतीति यक्षमा । राजरोगो वा । सुबति प्रेरयसोति सोमा । चन्द्रो वा । हूयतेऽसौ होमा । आहुतिर्वा । दधाति यद्यत्र चेति धाम स्वानं तेजो वा ॥
1
For Private And Personal Use Only