________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा०३
कुवः क्ररन् ॥ १३३ ॥ कुररः । १३३ ।।
अङ्गिमदिमन्दिभ्य आरन् ॥ १३४ ॥ अङ्गारः । मदारः । मन्दारः ॥ १३४॥
गडेः कड च ॥ १३५ ॥ कडारः । १३५॥ शृङ्गारभृङ्गारौ ॥ १३६ ॥ कोजमजिभ्यां चित्॥१३७॥कजारः ।मार्जारः। १३७॥ कमेः किदुचोपधायाः ॥ १३८ ॥ कुमारः ॥ १३८ ।
( १३३ ) कौति शब्दयतोति कुररः । पक्षिभेदो वा ।
(१३४ ) अङ्गति गच्छति स अङ्गारः। निर्धूमोऽग्निभूमिविकारो वा । माद्यति मतो भवतीति मदारः । वराहो वा । मन्दते स्तोतीति मन्दारः। निम्बतरुरर्कवृक्षो वा । बाहुलकान्मन्दधातोरारुप्रत्ययोऽपि भवति । मन्दतेऽसौ मन्दारुः । निम्बार्को वा ॥
( १३५ ) गडति सिञ्चतीति कडारः । पीतवर्णों वा ।।
( १३६ ) शृणाति हिनस्तोति शृङ्गारः । हस्तिशोभा नाट्यरसो दम्पत्योरन्योऽन्यं सम्भोगस्पृहा वा । अव धातार्नुम् हुस्वादेशश्च । बिभर्ति पुष्यतीति भृङ्गारः । सुवर्णपात्रविशेषो वा । स्त्रियां भृङ्गारो कोटजातिभेदो वा । झीगर इति प्रसिद्धः ॥
(१३७ ) कति रौतीति कजारः । मयूरो व्यञ्जनं वा । मार्टि शुन्धतीति मार्जारः । विडालो वा । स्त्रियां मार्जारी ।।
(१३८ ) चिदनुवर्तते । कामते भोगानिति कुमारः । शिशुर्युवराजो वा । कुमारक्रीडायामित्यस्मादपि पचाद्यचि कृते कुमारशब्दा व्यत्पद्यते तदपायान्तरमर्थभेदश्च ॥
For Private And Personal Use Only