________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
उगादिकोषः ॥
रमेरश्च लो वा ॥ ३३ ॥ रमकः । लमकः ॥ ३३ ॥ जहाते च ॥ ३४ ॥ जहकः ॥ ३४ ॥ ध्मा धम च ॥ ३५॥ धमकः ॥ ३५॥ हनो बध च ।। ३६ ॥ बधकः ॥ ३६॥
बहुलमन्यत्रापि ॥३७॥ कुहकः। कृतकम् । भिदकः। छिदकम् । रुचकम् । लङ्गकः । उज्झकः ॥ ३७ ॥
कृषद्धिश्चोदीचाम् ॥ ३८॥ कार्षकः । कृषकः ॥ ३८॥ उदकश्च ॥ ३९ ॥ वृश्चिरुषोः किकन् ॥ ४० ॥ वृश्चिकः । कृषिकः ॥१०॥ (३३ ) रमतेऽसौ रमकः । रमणशीला वा । लमकोपि स एव । (३४ ) जहाति त्यजति हानि करोतोति जहकः त्यागी कालो वा॥
( ३५ ) धर्मात शब्दं करोतीति अग्निं वा संयुक्ति स धमकः कर्मकारोवा ॥
( ३६ ) हन्तोति बधको हिंसकः ॥
( ३० ) बहुलवचनादन्यचापि क्वन् । कोहयति विस्मयं कारयतीति कुहकः । दाम्भिको नीहारो वा । कन्तति छिनत्तीति कतकं मिथ्या वा। भिनत्ति येन स भिदकः खड्गी वा । छिनति येन सच्छिदकं वजो वा। रोचतेऽनेन तदचकं मातुलुङ्गकं वा । विजौरा नीब इति प्रसिद्धं वा । लङ्गति गच्छतोति लङ्गकः । प्रियो वा । उज्झत्युत्सृजतोति, उजझकः । योगी मेघो वा ॥
(३८) कृषतीति कार्षकः कृषको वा कृषीबलः ॥ ( ३६ ) उति नेदयतीत्युदकं जलं वा ॥
( ४० ) वृश्चत छिनतीति वृश्चिकः विषो जीवविशेषः शूककीटो वा। केंचुआ इति प्रसिद्धः । कृति येन स कृषकः फालो वा ॥
For Private And Personal Use Only