________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणाटिकोषः ।
-
ऋज्जेन्द्रायवजविप्रकुबचुबक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरखनेरामालाः ॥ २८ ॥
समि कस उकन् ॥ २९ ॥ सङ्कसुकः ॥ २९ ॥
(२८ ) ऋजाये कोनविंशतिः शब्दा निपात्यन्ते । अर्जति गच्छति तिष्ठति वा स ऋजः । नायको वा । गुणाभावः । इन्दति परमैश्वर्यवान भवतीति इन्द्रः समर्थोऽन्तराऽऽत्मादित्यो योगा वा । अति गच्छतीति अग्रम् । प्रधानमुपरिभागो वा । वति प्राप्नोति प्राप्यते वा स वजः । होरक शस्त्रं वा । वपति धर्ममिति विप्रः । मेधावी वा । कुम्बत्याच्छादयतीति कुबम् । अरण्यं वा । चुम्बति यो येन वा तच्चुत्रम् । मुखं वा । अनोभयदितोऽपि नलोपः । यः क्षरति विलिखति येन वा छिनीति स क्षुरः । छेदनद्रव्यं कोकिलावं गोक्षरो लोमच्छेदकं नापितशस्त्रं वा । खरति छिनत्ति यो येन वा स खुरः शफं वा । अत्रोभयत्र रकि रेफलोपा गुणाऽभावश्च । भन्दते कल्याणं करोतीति भद्रम् कल्याणम् । नकारलोपः । उति समवैतोतिः उग्रः । महेश्वर उत्कट: क्षचं वा । विभेत्यस्मात्स भेरः । भेरी दुन्दुभिवी गौरादित्वान डोष । पक्षे भेरशब्दस्य लत्वम् । भेलो जलतरणद्रव्यं वृद्धकायः कातरी वा । शुच्यते पवित्रीभवतीति शुक्रम ब्रह्मानिराषाढः प्राणिवीज नेत्ररोगो वा । अस्यैव व्यवस्थितविभाषया पक्ष लत्वम् शुक्नः श्वेतं रजतं वा । गवतेऽव्यक्तं शब्दयतीति गौरः । श्वेतो रक्तवी वा । गौरी स्त्री । डीए । वनति सम्भजतीति वन विभागी। एति गच्छति यया सा इरा । उदकं मद्यं वा । इरावान समुद्रः ऐरावती नदी। इरया मद्येन मायतीति, इरम्मदः । माति मानहेतुर्भवतोति माला । पुष्पादिस्रक । माल क्षेत्रम् । मालो जनः । बाहुलकात-तितिक्षते येन तती. ब्रम् । तीक्ष्णं वा । जस्य बो दीर्घत्वं च धातोः ॥ (२६) सम्यक् कसति गच्छतोति सङ्कसुकः संशयमापन्नश्चञ्चलो दुर्जनो वा।
For Private And Personal Use Only