________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
up
अथ द्वितीयपादारम्भः
कृहभ्यामेणुः ॥ १ करेणुः । हरेणुः ॥ १ ॥ हनिकुषिनीरमिकाशिभ्यः क्थन् ॥ २॥ हाथः । कुष्ठः । नीथः । रथः । काष्ठम् ॥ २॥ . अवे भूत्रः ॥ ३॥ अवभृथः ॥ ३॥ उषिकुषिगात्ति भ्यस्थन् ॥४॥ोष्ठः।कोष्ठः। गाथा । अर्थः॥४॥
सर्तेर्णित् ॥ ५॥ सार्थः ॥ ५॥
(१) करोतीति करेणुः हस्ती हस्तिनी वा । हरति स हरेणः । गन्धद्रव्यं कलापो वा । मटर इति प्रसिद्धः ॥
(२) यो हन्यते येन वा स हथः । दुःखितः शस्त्रविशेषो वा । कुष्णाति निरन्तरं कर्षतीति कुष्ठम् । व्याधिभेदः । कूट इत्याख्यौषधिर्वा । नीयते स नोथः । नयनं वा । शोभना नीथोऽस्यास्तीति सुनीथो धर्मशीलः । रमते यस्मिन् येन वा स रथः । यानं शरीरं पादो वेतसो वा । काशते दीप्यते तत्काष्ठम् । इन्धनं स्थानं कालमानं वा । काष्ठा दिक दारहरिद्रा वा ॥
(३) कथन् । अवबिभत्तीति, अवभृथः । पक्षिभेदो यज्ञान्त स्नानं वा।
(४) ओषति यो दहति येन वा स ओष्टः । मुखावयवो वा । कुष्णाति निरन्तरं कति स कोष्ठः । कोष्ठं कुक्षिः कुशलमन्तर्गहं वा। गीयते या सा गाथा वाग्भेदः श्लोको वा । अर्यते प्राप्यतेऽसावर्थः । शब्दानां वाच्या धनं कारणं वस्तु प्रयोजनं निवृत्तिर्विषयो वा । बाहुलकात-श्यति तनकरोतीति शोथः । रोगविशेषो वा । शोतनकरण इत्यस्यात्वनिषेधः ॥
(५) सरति गच्छति स सार्थः समूहो वा । थन्प्रत्ययस्य णित्वाद् वृद्धिः॥
For Private And Personal Use Only