________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
ऋगया । पदव्याख्यान । छन्दोमान । छन्दोभाषा । छन्दोविचिति । न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । उत्पा• द । संवत्सर । मुहूर्त । निमित्त । उपनिपद् । शिक्षा । छन्दोविनिनी । व्याय । निरुक्त । विद्या । उद्याव । भिक्षा । इति ऋगयनादयः ॥
८८-शुण्डिकादिभ्योऽण ॥ ॥ ४ । ३ । ७६ ॥ पञ्चमीसमर्थशुण्डिकादिप्रातिपदिकेभ्य आगतार्थेऽण् प्रत्ययो भवति । शुण्डिकादागतः शौण्डिकः :
शुण्डिक । कृकण । स्थाण्डल । उदपान । उपल । तीर्थ । भूमि । तृण । पर्ण । इति शुण्डिकादयः ॥
८९-शण्डिकादिभ्यो ज्यः ॥ १०॥४।३।९२ ॥
प्रथमासमर्थशण्डिकादिप्रातिपदिकेभ्योऽभिजनेऽभिधेये ज्यः प्रत्ययो भवति शण्डिकोऽभिजनोऽस्य स शाण्डिक्यः :
शाण्डिक । सर्वकेश । सर्वसेन । शक । सट । रक । शङ्ख । वोध । इति शण्डिकादयः ॥
९०-सिन्धुतक्षशिलादिभ्योऽणौ ॥०॥४॥३।९३ ॥ प्रथमासमानाधिकरणेभ्यः सिन्ध्वादिभ्यस्तक्षशिलादिभ्यश्चाभिजनेऽर्थे यथासंख्यमणी प्रत्ययौ भवतः । सिन्धुरभिजनोऽस्य स सैन्धवः । तक्षशिलाऽभिजनोऽस्य स ता. शिलः । प्रत्ययभेदः स्वरभेदार्थः :
सिन्धु । वर्ण । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । किष्किन्धा। गब्दिका । उरस । दरत् । कुलन । दिरसा । इति सिन्ध्वादयः ॥
तक्षशिला । वत्सोद्धरण । कौमेदुर । काण्डवारण । ग्रामणी । सरालक । कंस । किन्नर । संकुचित । सिंहकोप्ठ । कर्णकोष्ठ । बर्बर । अवसान । इतितक्षशिलादयः ॥
९१-शौनकादिभ्यश्छन्दसि ॥ अ०॥४।३ । १०६॥
तृतीयासमर्थशौनकादिप्रातिपदिकेभ्यश्छन्दसि वेदे प्रोक्तार्थे णिनिः प्रत्ययो भवति । छाणोरपवादः । शौनकेन प्रोतमधीयते, शौनकिनः । वाजसनेयिनः । छन्दसीति किम् । शौनकीया शिक्षा । अत्र छन्द एव भवति :
शौनक । वाजसनेय । साङ्गरव । शाङ्गरव । सांपेय । शाखेय। खाडायन। स्कन्द।
For Private And Personal Use Only