________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
शीतम् । उदकम् । आर्द्रम् । ( १ ) अग्नी । वशे । विकम्पने । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस् । इति साक्षात्प्रभृतयः ।।।
७-तिष्ठद्गुप्रभृतीनिच ॥ भ० ॥२।१ । १७॥ तिष्ठद्मादयः समुदायाः कृतसमासा अव्ययीभावसंज्ञका विभाषया निपात्यन्ते । तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेषः । खलेयवादीनि प्रथमातानि विभक्त्यन्तरेण नैव संबध्यन्ते । अन्यपदार्थच काले वर्तन्ते ।
तिष्ठद्गु। वहद्गु। आयतीगवम् । खलेयवम् । खलेवुसम् । नूनयवम् । लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संहियमाणयवम् । संहृतबुसम् । संहियमाणबसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्पमम् । दुष्षमम् । अपरसमम् । आयतीसमम् । प्राहम् । प्ररथम् । प्रमृगम् । प्रदक्षिणम् । अपरदक्षिणम् । सम्प्रति । असम्प्रति । पापसमम् । पुण्यसमम् । इचकर्मव्यतिहारे (२) इति तिष्ठद्गुप्रभृतयः ।।
८-सप्तमी शौण्डैः ॥१०॥२।।४०॥
शौण्डेरिति बहुवचनादेव गणनिर्देशः । सप्तम्यन्तंसुचन्तं शौण्डादिभिः सह विभाषा समस्यते सप्तमीतत्पुरुषश्च स समासो भवति । अक्षेषु धूर्तोऽक्षधूर्तः । अक्षाकतवः । इत्यादि
शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवात । अन्तर्। अधिपटु । पण्डित। कुशल । चपल । निपुण । संव्याड । मन्थ । समीर । इति शौण्डादयः ॥
९-पात्रेसमितादयश्च ॥ १० ॥२।१।४८॥ पात्रे संमितादयाः समुदायाः क्षेपे गम्यमाने सप्तमीतत्पुरुषसंज्ञा निपात्यन्तेः
( ३ ) पात्रेसम्मिताः। पात्रेबहुलाः । उदरकृमिः । कूपकच्छपः । कूपचूर्णकः । अ| वटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः उदपानमण्डकः । नगरकाकः । नगरवायसः।
( १ ) लवणादय आर्द्रपर्यन्ताः शब्दा गतिसंज्ञासम्बन्धेन मकारान्ता निपात्यन्ते नतु सर्वत्र ॥
(२) कर्मव्यतिहारेऽर्थे समासान्तो इचप्रत्ययान्ता अपि शब्दा अव्ययीभावसंज्ञा भवन्ति । दण्डादण्डि । मुसलामुप्तलि । नखानखि । केशाकेशि । इत्यादि।
(३)येऽत्र गण क्तान्तास्तत्र क्षेप इति पूर्वसूत्रेणैव सिद्धे पुनः पाठो युक्तारोह्याधन्तर्गतपात्रेसम्मितादीनां पूर्वपदायुदात्तार्थः ॥
-
-
For Private And Personal Use Only