________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रप्रभाववर्णनम् । माहेश्वरं शाकुनशास्त्रसारं सारं समस्तं सहदेवशास्त्रात् ॥ सारं च वाचस्पतिगर्गशुक्रभृग्वादिशास्त्रादिह संगृहीतम् ॥६॥ न्यूनाधिकत्वं शकुनेषु मध्यात्कस्यापि केनापि न भावनीयम् ॥ महेश्वरादिप्रतिपादितत्वात्सर्वेऽपि सत्याःशकुना यतोऽमी॥ वेदाः प्रमाणं स्मृतयः प्रमाणं लोके पुराणानि यथा प्रमाणम् ॥ विशुद्धबोधाव्यभिचारिभावात्तथा प्रमाणं शकुनागमोऽयम् ॥ ८॥अपायरक्षासदुपायवृत्ती स्यांतां सदा शिक्षितशाकुनस्य ॥ स्याच्चैहिकासुष्मिकसारभूता त्रिवर्गवृद्धिः
॥ टीका ॥ पथावदुक्तं यथा गृहीतं तेन प्रकारेण प्रतिपादितमियर्थः। "आप्तप्रत्यायितौ समौ" इत्यमरः॥५॥ माहेश्वरमिति ॥ इह शास्त्रे माहेश्वरंमहेश्वरेण प्रणीतं शाकुनशास्त्रं सारं तथा सहदेवशास्त्रात्समस्तं सारं तथा वाचस्पतिर्गर्गशुक्रभृग्वादयो मुनयः तैः प्रणीता च्छास्त्रात्सारं तत्त्वं संगृहीतमित्यर्थः ॥ ६ ॥ न्यूनाधिकत्वमिति ॥ केनापि पुंसेति शेषः। शकुनेषु मध्यात्कस्यापि शकुनस्प न्यूनाधिकत्वं न भावनीयं न विचारणीयम् । महेश्वरादिप्रतिपादितत्वान्महेश्वरोमहादेवः आदौ येषां ते,महेश्वरसहदेववाचस्पतिगर्गशुक्रभृग्वादयस्तैःप्रतिपादितत्वात्प्रोक्तत्वात्सर्वेपि अमी शकुनाः सत्याः अविसंबादिन इत्यर्थः ॥ ७ ॥ वेदा इति ॥ यथा लोके वेदाः प्रमाणं यथा अष्टादश स्मृतयः प्रमाणं यथा पुराणानि अष्टादशसंख्याकानि प्रमाणं विशुद्भवोधाव्यभिचारिभावात् विशुद्धः स्वस्थी यो बोधो ज्ञानं तस्मिन्नव्यभिचारित्वादविसंवादित्वादि. ति यावत् ।तथायं शकुनागमः शकुनसिद्धांतोऽपि प्रमाणम्॥८॥ अपायति।शिक्षितशाकुनस्य पुंसः सदा अपायरक्षासदुपायवृत्ती स्यातां भवेतां अपायः कष्टंतस्माद
॥भाषा ॥ कया है, जैसो प्रहण कियो ताप्रकार कर प्रतिपादनकियोहै ॥ ५॥ माहेश्वरमिति ॥ याशास्त्र में महादेवजीने कह्यो जो शकुनशास्त्रको सार, और सहदेवके शास्त्रतें समस्त सार, तैसेही बृहस्पति, गर्ग, शुक्र, भृग्वादिक मुनि इनमें करे जे शास्त्र, उनते ये सारग्रहणकियोहै ॥६॥ न्यूनाधिकत्वमिति ॥ शिवजीकू आदिले सहदेव, बृहस्पति, गर्ग, शुक्र, भृग्वादिक इनने कहे हैं यातें शकुननके मध्ामेंस कोई शकुनभी न्यून अधिक नहीं विचारणा योग्य है संपूर्णही ये शकुन सत्य ॥ ७ ॥ वेदा इति ॥ लोकमें जैसे वेदप्रमाणहैं, जैसे अठारे स्मृती प्र. माण हैं, जैसे अठारे पुराण प्रमाण हैं, तैसेही ये शकुनशास्त्र शकुनांसिद्धांतप्रमाण है ॥ ८॥ अपायति ॥ शकुनशास्त्रकू जाने तापुरुषके सदा कष्टसू रक्षा सुन्दरउपाय
For Private And Personal Use Only