________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचोष्टते लाभप्रकरणम् । शुभाशुभज्ञाननिमित्तमस्मिन्यथावदुक्तं मुनिसंमतेन ॥ प्रदयते श्वानविचेष्टितेन लाभस्य दिङ्मात्रमथैतदत्र ॥१४२॥ यक्षो हरिद्रामिषगैरिकायैः पूर्णाननो वक्ति सुवर्णलाभम् ॥ दृष्टिं पुनः पुष्पफलांकुरेषु चिरं ददानो निधिलाभकारी।।१४३॥ यः पल्लवैः क्रीडति वृक्षमूलं तथेक्षते यः स ददाति सौख्यम्॥ रक्ताक्तमूर्दाभिमुखोऽभ्युपैति यो मंडलः सोऽवनिलाभहेतुः १४४ स्थित्वोन्नते श्वा यदि तु प्रदेशे पादेन कंडूयति दक्षिणेन । शिरःप्रदेशं नियतं नरस्य तद्धतुलाभं विदधाति सद्यः ॥ १४५ ॥
॥ टीका ॥
शुभाशुभेति ॥ अस्मिन्प्रकरणे शुभाशुभज्ञाननिमित्तं यथावद्यथा ज्ञातं तथा उक्तम् । अथ मुनिसंमतेन श्वानविचेष्टितेन लाभस्यैतज्ज्ञानमत्राऽस्मिन्प्रकरणे दि. ङ्मानं प्रदर्श्यते ॥ १४२ ॥ यक्ष इति ॥ हरिद्रामिषगरिकाद्यैः हरिद्रा रजनी आमिषं मांसं गैरिकं धातुविशेषः आदिशब्दादन्येपि धातवो ग्राह्याः।एतेषामितरेतरद्वंद्वातैः कृत्वा पूर्णाननो यक्षः सुवर्णलाभंवक्ति । पुष्पफलांकुरेषु पुष्पं प्रसूनं फलम् आम्रादि अंकुराः प्ररोहाः। एतेषां इंदः तेषु चिरं हाष्टं ददानः निधिलाभकारी स्यात ॥ १४३ ॥ य इति ॥ यःश्वा पल्लवैः नवीनपत्रैः क्रीडति तथा वृक्षमूलमीक्षते स सौख्यं ददाति । तथा यः मंडलः अभिमुखः अभ्युपैति कीदृक् रक्ताक्तमूर्दा रक्तेन धातुना रुधिरेण वा अक्तो लिप्तो मूर्खा मस्तकं यस्य स तथा सः अवनिलाभहेतुः स्यात् ॥ १४४ ॥ स्थित्वेति ॥ उन्नते प्रदेशे उच्चैः स्थाने स्थित्वा यदि श्वा दक्षि
॥भाषा ॥ शुभाशुभेति ॥ या सातमें प्रकरणमें शुभाशुभ ज्ञान जैसो जान्यो तैसो कह्यो. आठमें प्रकरणमें मुनिनकी संमति करके श्वानकी चेष्टातूं लाभको ज्ञान दिशा मात्र दिखावे है ॥ १४२ ॥ यक्ष इति ॥ हलदी, मांस, गेरूकू आदिले औरभी धातु इनकरके पूर्ण जाको मुख ऐसो श्वान सुवर्णको लाभ करे. और पुष्प, फल, अंकुर इनमें बहुत देरताई देखो करै तो निधिको लाभ करे ॥ १४३ ॥ य इति ॥ जो श्वान नवीन पवन करके क्रीडा करतो होय और वृक्षको जडकू देखतो होय वो सौख्य देवे. जो श्वान गेरूकू आदिळे धातूनकरके अथवा रुधिर करके लाल लियो हुयो जाको मस्तक होय वा सन्मुख आवे तो पृथ्वीको लाभ करै ॥ १४४ ॥ स्थित्वति ॥ ऊंचे स्थानमें स्थित होय करके जो श्वान
For Private And Personal Use Only