________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३९६) वसंतराजशाकुने-चतुर्दशो वर्गः। ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसेच दृष्टाः॥ यदा तदाशूद्रसतामुपैति स्युम॒त्यवे तबमृतप्रसूताः॥१९॥ गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ॥ स्युर्वन्यसत्त्वाःशकुनानितेषामुद्भावनीयान्यपराणि चैवम् ॥५०॥ इति वसंतराजशाकुने चतुर्दर्शा वर्गः समाप्तः॥ १४॥
॥टीका ॥ रशब्दो येषां ते तथोक्ताः भिये भवंति ते अरण्यचरा ग्राम्यचरानुशब्दाः रोधाय भवंति परस्परानुस्वननेन ग्राभ्यचरशब्दानंतरं शब्दो येषां ते तथोक्ताः बंधग्रहसंप्रयुक्ता भीति वदंति अन्योन्यं साध जल्पनेन "मिथोऽन्योन्यं परस्परम्” इति केशवः केचित्तु आरण्यचराणां सदृशः:शब्दो येषां ते आरण्यचरानुनादाः ग्राम्यचराणां सदृशः शब्दो येषां ते ग्राम्यचरानुनादा इति व्याख्यायंते ॥४८॥ ग्रामे इति ॥ वन्यसत्त्वाः वन्यपशवः ग्रामे पुरे वा रात्रौ प्रविष्टाः प्रवेशं कृतवंतः यदा दिवसे च दृष्टाः स्युः तदाः शीघ्रं तनगरं उदसतामुपैति गच्छति तत्र ग्रामे पुरे वा मृतप्रसूताः मृताश्च प्रसूताश्चेति वंदः जनानां मृत्यवे स्युः॥ ४९ ॥ गहा इति ॥ वन्यसत्त्वाः गृहागताः गृहप्रविष्टा गृहपतेर्भयाय भवति तथा गोपुरस्थाः नगरस्थाः पुरस्य रोधाय आवरणाय स्युः एवममुना प्रकारेण तेषां वन्यसत्त्वानाम पराणि शकुनानि उद्भावनीयानि ज्ञातव्यानि “पूरे गोपुरं रथ्या प्रतोली विशिखाः समाः" इति हैमः॥ ५० ॥
इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां वसंतरानशाकुनटीकायां चतुष्पादवर्णनं नाम चतुर्दशो वर्गः ॥ १४॥
॥भाषा॥ फिर ब्रामके बोलें तो पीछे वनके जीव बोले तो बंदीखाने करके सहित भय होय ॥ ४८ ॥ ग्रामे इति ॥ बनके पशु प्राममें वा पुरमें रात्रिमें प्रवेशकर जाय जो दिवसमें दीख जांय तो शीघ्रही वो ग्रामपुर नाशकू प्राप्त होय जाय ता ग्राममें वा पुरमें मनुष्यनके मृत्युके अर्थ जाननो ॥ ४९ ॥ गहा इति ।। बनके पशु घरमें आय जांय तो घरके पतिकू भयके मर्थ होय. जो नगरके द्वारे स्थित होय तो वा नगरकू शत्रु आय करके रोकले जैसे ये कहेहैं तैसेही वनके जीवन के शकुन और भी जानबेकू योग्य है ॥ ५० ॥
इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधराविरचितायां वसंतराजभाषाटीका. यो चतुष्पदानां प्रकरणे चतुर्दशो वर्गः ॥ १४ ॥
For Private And Personal Use Only