________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिष्ठितप्रकरणम् १. लोकोमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकार्यः ॥ नापायकूपे पतति प्रसर्पशास्त्रं हि दिव्या हगतींद्रियेषु ॥ ॥ ९ ॥ चूडामणिज्योतिषशास्त्रहोरास्वरोदयायैर्विविधैर्जनस्य। जडीकृतस्यौषधमेतदिष्टं स्फुरचमत्काररसातिरेकम् ॥१०॥
॥ टीका ॥
विशेषेण जानातीति शाकुनशास्त्रविज्ञो मनुष्यो ममैतत्प्रयोजनं सापायं सकष्टं भ. विष्यति निरसायं कष्टरहितं भाविभविष्यतीति बुद्धा ज्ञानेन कृत्वा असंशयं संशयरहितं यथा स्यात्तथा तत्प्रयोजनं जहाति त्यजति । च पुनरुपक्रमते । तत्करणायोद्यतो भवतीत्यर्थः एतेन पूर्वोक्तं लक्षणमेव समर्थितम् ॥ ८ ॥: पुनस्तदेव प्रपंचयन्नाह ॥ लोक इति ॥ लोको जनःप्रसर्पत्रितस्ततो गच्छन्नपायकूपे कष्टावटे न पतति । कीदृशो लोको विज्ञातसमस्तकार्य इति विज्ञातं विशेषेण अवगतं समस्तंसमग्रं कार्य येन स तथा केन अमुना शास्त्रेण कीदृशेन शकुनसंज्ञकेनेनि शकुन इति संज्ञाभिधानं यस्य स तथा हि यस्मात्कारणादतींद्रियेष्वर्थेषु शास्त्रं दिव्या दृग्वर्तते। यथा दिव्यदृशा दवः सर्वं पश्यति तथा तेनेत्यर्थः ॥ ९ ॥ चूडामणीति ॥ एतच्छास्त्रमौषधमिष्टं वांछितं । कस्य जनस्य कीदृशस्य जडीकृतस्य जडतां प्रापितस्येत्यर्थः। कैः चूडामणिज्योतिषशास्त्रहोरास्वरोदयाद्यैस्तत्रचूडामणिग्रंथविशेषः। ज्योतिषशास्त्रं संहितादि । होरा जातकादि । स्वरोदयो महेश्वरकृतो ग्रंथ: एतत्प्रभृतिभिरित्यर्थः। कीदृशैर्विषमैरर्थतो न तु सूत्रतः । कीदृशं स्कुरञ्चमत्काररसातिरेकं स्फुरन्प्रकटीभवन् चमत्कारलक्षणो रसस्तस्यातिरेकः आधिक्यं
॥ भाषा॥
हित होयगो, कष्टरहित होयगो, या बुद्धिकर शकुनतें संदेह रहित होय, कार्यकू त्याग करै, फिर वा कार्यके करवेके अर्थ उद्योगकरै ॥ ८ ॥ लोकइति ॥ शाकुनहै संज्ञा जाकी ऐसो ये शास्त्र ताकरके हुयो जो ज्ञान ताकरके जानेोहै समग्र कार्य जाने ऐसो मनुष्य है सो इतउतमें डोलत फिरत कष्टरूपी कुंआमें नहीं पडैहै क्यों जो इंद्रियनकरके नहीं देखवेमें आवैहै और सुनवेमें नहीं आवैहै ऐसे कार्यनमें शास्त्रही दिव्यदृष्टि वर्तेहै जैसे दिव्यदृष्टिकरके देवता संपूर्ण देखेहैं तैसेही मनुष्यशास्त्ररूपी दिव्यदृष्टिकरके देखे ॥ ९ ॥ चूडामणाति ॥ चूडामणिये कोई ग्रंथविशेषहै, और ज्योतिषशास्त्र जो संहितादिक, और होरा जो जातकादिक, और स्वरोदय जो
For Private And Personal Use Only