________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३८४) वसंतराजशाकुने-चतुर्दशों वर्गः। मेषैडको दक्षिणकायचेष्टौ शुभेषु कार्येषु शुभौ प्रदिष्टौ।वामा च चेष्टां प्रतिपादयंती कार्येषु तावप्यशुभेषु शस्तौ ॥ १६॥
॥ इति मैरेडकौ ॥ उष्ट्रस्य वामो मधुरश्च शब्दःशस्तोऽप्रशस्तः परुषः प्रवासे॥ अनातवामस्थितयोविरावैश्छुच्छंदरीमूषिकयोश्च सिद्धिः॥ १७॥
॥इति उष्ट्रछुच्छंदरीमूषिकाः॥ शस्तो रुवन्नामिषपर्णवको रिक्ताननोनादकृदप्रशस्तः॥नानाप्रकारविरुतैरुपेतो निद्यो बिडालः खलु यद्यमानः॥ १८ ॥
॥ टीका ॥
मषैडकाविति ।। मेषः अजः एडको हुडुः एतौ दक्षिणकायचेष्टौ शुभेषु कार्येषु शुभौ प्रदिष्टौ वामां च चेष्टां प्रतिपादयंता अशुभेषु कार्येषु तावपि शस्तौ भवतः१६
॥ इति मेषैडकौ।। उष्ट्रस्यति ।। उष्ट्रस्य खणस्य वामो मधुरः शब्दः शस्तः परुषः कठिनः प्रवासे गमने प्रशस्तः । अनार्तयोरदुःखितयोः छुच्छंदरीमूषिकयोः वामस्थितयोश्च विरावैः सिद्धिः स्यात् ॥ १७॥
॥ इति उष्ट्छुच्छंदरीमूषिकाः॥ शस्त इति ॥ आमिषपूर्णवक्त्रो मार्जार शस्तः । रिक्ताननो नादकृदप्रशस्तः स्यात् । नानाप्रकाविरुतैरुपेतो युध्यमानो बिडालो निंद्यः स्यात्। ग्रंथांतरे त्वेवं रा
॥ भाषा ॥ मेषैडकाविति ॥ बकरा और मेंढा ये दोनों जेमने अंगमें चेष्टा करते होय तो शुभकार्यनमें शुभ कहेहैं. और वामअंगमें चेष्टा करते: होय तो अशुभ कार्यनमें प्रशस्त हैं ॥ १६ ॥
॥ इति मेषडकौ ॥ उष्ट्रस्यति ॥ ऊंटको वामभागमें मधुर शब्द शुभ है. कठोर शब्द गमनमें अशुभहै. और चकचंदर मूषिका ये दुःखी होय नहीं वामभागमें स्थित हॉय इनके शब्द करके सिद्धि होय ।। १७॥
॥ इति उष्ट्रछुच्छंदरीमूषिकाः ॥ शस्त इति ॥ जो. बिडाल मांस मुखमें भयो होय और बोले तो शुभहै, और
For Private And Personal Use Only