________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३३४) वसंतराजशाकुने-त्रयोदशो वर्गः । हृष्टः स्वरेण क्षितिजेन पिंगः संलापकारी पुनरांभसेन ॥ कामातुरो जल्पति तेजसा वै शांतास्त्रयोऽमी कथिताश्च नादाः ॥ ३७॥ वायव्यशब्दं कुपितः करोति शोकार्दितो नाभसशब्दकारी ॥ शब्दाविमौ द्वावपि पिंगलस्य बुधाः प्रदीप्ताविति निर्दिशंति ॥ ३८॥
इति पिंगलारुते स्वरप्रकरणं द्वितीयम् ॥२॥ भूम्यंबुतेजोऽनिलखात्मकानां मात्रादिभेदः कथितः स्वराणाम् ॥ बलान्यथैषां ककुभां विभागैमित्रारिमध्यस्थतया वदामः॥३९॥
॥ टीका॥
पुरुषाणां तुच्छमध्यमसकलानि फलानि स्युः क्रमान्महातः वदति ॥ ३६ ॥ हृष्ट इति ॥ क्षितिजेन स्वरेण पिंगः हृष्टःसन्संलापकारी स्यात् । पुनः आंभसेनापिकामातुरः तैजसेन जल्पति अमी त्रयः नादाः शांताः कथिताः ॥३७॥ वायव्येति ॥ कुपितः वायव्यशब्दं करोति शोकार्दितः नाभसशब्दकारी स्यात् । इमौ शब्दौ द्वावपि पिंगलस्य बुधाः पंडिताः प्रदीप्ताविति निर्दिशति ॥ ३८॥
इति वसंतराजटींकायां पिंगलारुते स्वरमात्राप्रकरणं द्वितीयम् ॥२॥ भूम्यंब्बिति ॥ भूम्यंबुतेजोनिलखात्मकानां स्वराणां मात्रादिभेदः कथितः । अथ एषां ककुभां काष्ठानां विभागैः मित्रारिमध्यस्थतया बलानि वदामः ॥३९॥
॥ भाषा ॥ हृष्ट इति ॥ पिंगलपक्षी पार्थिवस्वरकरके प्रसन्न होत आलाप करें. फिर आप्यया शब्द करके कामातुर होय तेजसस्वस्करके बोले तो ये तीनो नाद शांतसंज्ञक कईहैं ।। ३७ ॥ वायव्यति ॥ कोप होयकर वायव्य शब्द करै, शोकार्दित होयकर नाभस शब्द करै पिंगलके ये दोनोशब्दनकू पंडित प्रदीप्त कहेहैं ॥ ३८ ॥
इति श्रीवसंतराजशाकुने भाषाटीकायां पिंगलारुते स्वरमात्राप्रकरणं द्विती यम् ॥२॥
भूम्यंब्विति ।। पृथ्वी, जल, तेज, वायु, आकाश इन स्वरनके मात्रादिक भेद कहैहैं. अब हम इन पांचोनकू दिशानके विभागनकरके और मित्र भरि मध्य इनमें स्थिति करके
For Private And Personal Use Only