________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते मुखादिप्रकरणम् ।
(२१७) तत्कालनीतेषु गवादिकेषु क्षेमाय लाभार्थमयात्रिकः स्यात् ॥ भवेच्च कालांतरितापहारे प्रस्थानशंसीशकुनः शुभाय३८९॥ वामतःसृजति यावतः स्वरांस्तावतोबलवतोऽथ तस्करान् ॥ दक्षिणा भगवती नु यावतस्तावतस्त्वभिदधाति दुर्बलान् ॥ ॥३९०॥ मार्गभ्रमेऽरण्यगतस्य जाते धनुर्धरों पश्यति येन यांतीम् ॥ मार्गेण तेनानुसरेन्मनुष्यः पंथानमासादयते पुरस्तात्.॥ ३९१ ॥ नायं चौरो निश्चित्तं देवदत्तः साधुःशुद्धि लप्स्यते चेति पृष्टे ॥ कृत्वा शब्दं दक्षिणा ब्रह्मपुत्री यायाच्चेत्तदह्यतेसौ न दिव्ये ॥ ३९२ ॥
॥ टीका ॥
पश्चितः प्रत्यागमाय प्रतिपादयंति ॥ ३८८ ॥ तत्कालइति । तत्कालनीतेषु गवादिकेषु क्षेमार्थ लाभार्थं च अयात्रिक: स्यात् च पुनरर्थे कालांतरितापहारे प्रस्थानशं सी शकुनः शुभाय भवति ॥ ३८९॥ वामत इति ।। भगवती यावतः स्वरान्वामतः सृजति करोति तावतो बलवतःतस्करान् अभिदधाति दक्षिणेन पुनः यावतः स्वराकरोति तावतः दुर्बलांस्तस्करानभिदधाति ॥ ३९० ॥ मार्गभ्रम इति ॥ अरण्य गतस्य पुंसः मार्गभ्रमे जाते सति पुमान् धनुर्धरी यांती येन पथा पश्यति तेन पथा मनुष्यः अनुसरेगच्छेत् पुरस्तात् पंथानमासादयते ॥ ३९१ ॥ नायमिति ॥ ना. यं चौरः निश्चितं देवदत्तः साधुः शुद्धिं लप्स्यते चेति पृष्टे यदि शब्दं कृत्वा दक्षिणा
॥भाषा॥ । तत्काल इति ॥ जो चोर गवादिकनकू तत्काल हर करके लेगयो होय ती क्षेमके लिये लाभके लिये औरविना गये विना आय जाय ऐसो कहनो और जो कालांतरमें हरण हुये होंय तो गये ते आवे शकुन शुभ जाननो ॥ ३८९ ॥ वामत इति ॥ पोदकी जितने स्वर चामभागते करे उतने ही चौर बलवान् कहे. और दक्षिणभागमें जितने स्वर करै तितनेही दुर्बल तस्कर कहै ॥ ३९० ॥ मार्गभ्रम इति ॥ वनमें गमन करे ताकू जो मार्गमें भ्रम होय जाय तब धनुर्धरो जा मार्ग कर गमन करती दीखै ताही मार्गमें पीछे पीछे चल्यो जाय तो अगाडी मार्ग मिलजाय ॥ ३९१ ॥ नायमिति ॥ये निश्चय चौर है वा साधु है ऐसो प्रश्न कर तब जो श्यामा शब्दकरके दक्षिणा होय तो दिव्य शुद्ध जाननो ॥ ३९२ ॥
For Private And Personal Use Only