________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८२) . वसंतरानमाकुने-सप्तमो वः।
प्रदक्षिणं गच्छति पक्षियुग्मं ततः समारोहति पादपं चेत् ॥ फलप्रसूनांकुरपत्रहीनं जायापती चेद्भवतो दरिद्रौ ॥२६२॥ कृत्वा वं दक्षिणतश्च गत्वा श्यामागुमं शुष्कमधिष्ठिता . चेत् ॥ तद्वंध्यतां जल्पति कन्यकायाः षंढत्वमाख्याति खगो नरस्य ॥२६३॥ उभे विहंग्यौ विहगस्तथैको यदि त्रयं दक्षिणभागमेति ॥ सौभाग्यसौहार्दमहानिधानं वोढुस्तदा । भवतो युवत्यौ ॥ २६४ ॥ तारस्य पक्षिद्वितयस्य मध्यात्खगांतरं चेच्छूयते विहंगी। तदा कुमारी परिणीयते या सा निश्चितं दुश्चरिता भवित्री ॥ २६५॥ .
॥ टीका ॥
कुमार्याः कपालवतधारितो ब्रूते खगश्चन्नरस्य तद्भूते ॥ २६१ ॥ प्रदक्षिणमिति ॥ पक्षियुग्मंप्रदक्षिणं गच्छति ततः फलप्रसूनांकुरपत्रहीनं पादपं चेत्समारोहति तदा तनायापती दरिद्रौ भवतः ॥२६२॥ कृत्वेति यदि रवं कृत्वा दक्षिणतः गत्वा चेच्छयमा शुष्कद्रुमं अधिष्ठिता स्यात् तदा कन्यकायास्तद्वंध्यतां जल्पति खगोनरस्य पंढत्वमाख्याति ॥ २६३ ॥ उभे इति ॥ उभे विहंग्यौ तथैको विहंगः यदि त्रयं दक्षिणमार्गयायी भवति तदा वोढुः द्वे युवत्यौ भवतः सौभाग्यसौहार्दमहानिधानं यथा स्यात्तथेति क्रियाविशेषणम् ॥ २६४ ॥ तारस्यति ॥ तारस्य पक्षियस्य मध्यात् खगांतरं चेद्विहंगी श्रयते तदा या कुमारी परिणीयते सा निश्चितं दुश्चरिता
॥भाषा॥
अर्थात् भ्रष्ट होय जाय ॥ २६१ ॥ प्रदक्षिणमिति ॥ जो पोदकीको युग्म दक्षिणभागमें गमन करे ता पीछे फल, पुष्प, अंकुर, पत्र, इनकरके हीनसूखे वृक्ष पै चढजाय तो स्त्रीपुरुष दोनों दरिद्री होय ॥ २६२ ॥ कृत्वति ॥ जो पोदकी शब्दकरके दक्षिणते जायकरके सूखे वृक्ष पै जाय बैठे तो कन्याकं बंध्या करें और जो पुरुष पक्षी या रीतिसूं स्थित हाय तो वरकू नपुंसकता कहेहैं ॥ २६३ ॥ उभे इति ॥ दोय पोदकी एक विहंग ये तीनों दक्षिणमार्गमें गमन करें तो वरके सौभाग्य सुहृद महान् धन इनसहित दोय स्त्री होय ॥ २६४ ॥ तारस्येति ॥ पोदकीके युगलमेंसू जो पोदकी और पक्षीको आश्रय करै तो व्याही कन्या
For Private And Personal Use Only