________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुने-सप्तमो वर्गः । तेनैकस्मिन्सर्वजाते निमित्ते यादृग्येषां प्राणचारोऽभ्युदेति ।। ताहक्तेषां स्यात्फलं मानवानां नैकाकारो हंसचारस्तथा हि॥ ॥२१२॥ कस्यापीडा कस्यचिद्भानुनाडीकस्याप्यते नाडिके द्वे वहते ॥ कस्याप्यंतर्याति कस्यापि बाह्यं घोणायंत्रप्रेरितो मातरिश्वा ॥२१३॥ श्यामाचारे हंसचारेण साकं यस्याभ्यासो वेत्त्यसौ कर्मपाकम् ।। जानात्येकं यो व्यस्यास्य मध्यात्तस्मिन्नास्ते शाकुनज्ञानसंपत् ॥२१४॥ इंति पोदकीरुते हंसचारप्रकरणमष्टमम् ॥ ८॥
॥टीका ॥ रीत्यं शस्यते मिश्रत्वे फलं मिश्रमेव स्यात् ॥ २११ ॥ तेनेति ॥ तेन कारणेन एकस्मिन्नेव निमित्ते जाते यादृङ्मानवानां प्राणसंचारः अभ्युदेति तेषां मानवानां तादृक्फलं स्यात् । यस्मात्कारणात् हंसचारो नैकाकारोस्ति तथाहीति तदेव दर्शयति ॥ २१२ ॥ कस्यापीति ॥ कस्यापि इडा वहति कस्यचिद्भानुनाडी वहति कस्याप्येते हे वहेते घोणायंत्रप्रेरितो नासिकामेरितः मातरिश्वा कस्याप्यंतांति कस्यापि बाह्यम् ॥ २१३ ॥ श्यामेति ॥ हंसचारेण साकं श्यामाचारे यस्याभ्यासो वर्तते असौ कर्मपाकं वेत्ति अस्य दयस्य मध्याद्य एकं वेत्ति तस्मिन् शाकुनज्ञानसंपदास्ते तिष्ठतीत्यर्थः ॥ २१४ ॥ इति शळजयकरमोचनादिसुकृतकारिभिर्महोपाध्यायश्रीभानुचंदगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरते हंसचारप्रकरणमष्टमम् ॥ ८ ॥
॥भाषा॥ तेनेति ॥ एककार्यमें मनुष्यनको प्राण वायु जैसो जैसो चलतो होय तैसोही फल होय जासू ये प्राणवायु सबनको एकसो नहीं चले है ॥ ११२ ॥ कस्यापीति ॥ काऊपुरुषको चंद्रनाडी वहैहै काऊकी सूर्यनाडी चलैहै काऊकी दोनों नाडी चलें हैं नासिकायंत्रकरके प्रे. रोहयो पवन काऊपुरुषके भीतर प्रवेशकरैहै काऊके बाहर निकसै है यह श्वास सबनको एकसोनहींचलेहै ॥ २१३ ॥ श्यामेति ॥ हंसचार जो इडा पिंगलाको चलनी या करके सहित जो श्यामा चारमें जाको अभ्यास होय वो कर्मपाककू जान है और जो पुरुष इनदोनोंनमेंसं एकही जानतो होय तो वो पुरुष शाकुनमें यथार्थपूर्ण नहीं होय ॥ २१४ ॥
॥ इति श्रीवसंतराजभाषाटीकायां पोदकरते हंसचारप्रकरणमष्टमम् ॥ ८ ॥
For Private And Personal Use Only