________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३६) वसंतराजशाकुने-सप्तमो वर्गः। ग्रंथविस्तरभयान बहूनिकरचेष्टितफलान्युदितानि ॥ आत्मनैव सुमतिर्ननुतस्मादीदृशान्यनुसरेदपराणि॥ १०४॥ दुष्टचेष्टितफलाभिधायिनी पंचविंशतिमिमामवैति यः॥ पूरुषः पुरुषकारतत्परःसक्षमो भवति दैवलंघने॥ १०५॥ इति पोदकीरुते अशुभचेष्टाफलप्रकरणं पंचमम् ॥५॥
॥ टीका ॥
डितः रोगातः स्पीडितःप्रभुणा वधाय आदिष्टः आदिशब्दादन्येषां दीप्तकार्याणां ग्रहणं एषु कार्येषु इत्यादिकाश्चेष्टाः प्रशस्ताः कथिताः । अन्यत्र शांतकार्ये एताः पूर्वोताःभीरोगबातेप्सितकार्यनाशान् भीश्च रोगश्च घातश्च ईप्सितकार्यनाशश्चेतरेतर द्वंद्वः। तानवश्यं विदधति कुर्वन्ति ॥१०३॥ ग्रंथति ॥ ग्रंथविस्तरभयावहानि कर चेष्टितफलानि नोदितानि कथितानि तस्मात्कारणान्ननु निश्चयेन सुमतिःप्रेक्षावानास्मनैव स्वबुद्ध्यैव ईदृशान्यपराणि अनुसरेत् ॥ १०४ ॥ दुष्ट इति ॥ यः पुरुषः इमां दुष्टचेष्टितफलाभिधायिनी पंचविंशतिमवैति जानाति स पुरुषः दैवलंघने क्षमो भवति समर्थः स्यात् । कीदृक् पुरुषकारतत्पर इति पुरुषकारः उद्यमस्तत्र तत्परः 'मर्त्यः पंचजनोभूस्पृक् पूरुषः पुरुषो नरः' इति ॥ १०५ ॥ इति श्रीमहोपाध्यायभानुचंद्रविरचितायां वसंतरानटीकायां
पोदकीरुते पंचमं प्रकरणम् ॥५॥
॥भाषा।
चेष्टा पक्षीकी ते शुभ जाननी और शांतकार्यनमें ये पूर्वकही हुई चेष्टा ते भयरोगघात वांछित कार्यको नाश इहें अवश्य करे ॥ १०३ ॥ ग्रंथ इति ॥ ग्रंथके विस्तारके भयते बहुत कर चेष्टानके फल नहीं कहे हैं ताते निश्चयही बुद्धिमान् पुरुष अपनी बुद्रिकरके ऐसे ऐसे और क्रूर चेष्टानके कार्यनकू या रीतिसूही विचारले ॥ १०४ ॥ दुष्ट इति ॥ दुष्टचेष्टानको फल जामें कयो ऐसी ये पंचविंशतिक जो जाने, और उद्यममें तत्पर होयरह्यो होय सो पुरुष दैवकू उलधन करवेमें योग्य होय ॥ १०५ ।। इति श्रीजटाशंकरसुतज्योतिर्विच्छीधरविरचिते वसंतराजशाकुने भाषाटी
कायां पोदकीरते अशुभचेष्टाफलं नाम पंचमप्रकरणम् ॥५॥
For Private And Personal Use Only