________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. (८०) वसंतराजशाकुने-षष्ठो वर्गः ।
अत्रैव कार्ये पुनरेवमन्ये वदंति तत्प्राक्तनमानभांडम् ॥ भांडांतरस्योपरि संनिदध्युः पाषाणखंडेन ततोऽपिदध्युः ॥ ॥ १० ॥ विन्यस्य तस्योपरि मार्जनों च तिस्रः कुमारीसहितास्तरुण्यः ॥ तत्सर्वमादाय जने प्रसुप्ते चांडालगेहांतिकमाश्रयेयुः ॥ ११॥ पूर्वोदितं तत्र विधि विधाय दत्तावधानाः शृणुयुस्ततस्ताः ॥' चांडालगेहे यदि कोऽपि किंचिरवीति कार्येऽपि तथाऽवधार्यम् ॥ १२॥
॥'टीका ॥
गहवर्तिना नरेण स्त्रिया वा वचनमीरितं भाषितंः भाविनि भविष्यति प्रयोजने कायें तदवितथं सत्यं भवति॥९॥ अति।अत्रैव कायें अन्ये सुरयः पुनरेवं वदंति ताः स्त्रियः तन्मानभांडं भांडांतरस्योपरि संनिदध्युः स्थापयेयुः ततः पाषाणखंडेन पिदध्युराच्छादयेयुः॥१०॥ विन्यस्येति ॥ कुमारीसहितास्तिस्रस्तरुण्यश्चांडालगेहांतिकमाश्रयेयुः चांडालगेहस्य संनिधि गच्छेयुः किं कृत्वा तस्योपरि मार्जनीं विन्यस्य स्थापयित्वा पुनः किं कृत्वा तत्सर्व पूर्वोक्तमादाय कस्मिन्सति प्रसुप्ते जने सति लोके निद्रां गते सतीत्यर्थः ॥ ११ ॥ पूर्वोदितमिति ॥ ततः पूर्वोदितं पूर्वप्रतिपादितं तत्र विधि विधाय कृत्वा दत्तावधाना इति दत्तमवधानमुपयोगो याभिस्ताः नार्यः शृणुयुः यदि चांडालगेहे कोपि किंचिद्रवीति कार्येपि भाविप्रयोजनेऽपि तदा तदवार्य तथा फलं विचारणीयमित्यर्थः ॥ १२॥
॥ भाषा।।
कहे हुये वचन कार्यमें सत्यही होयहैं ॥ ९ ॥ अत्रेति ॥ याही कार्यों, और आचार्य ये रीति कहैं वैई स्त्री वो जो पात्र है ताकू कोई और पात्रके ऊपर धरनो फिर वा पात्र पाषाणके टूकसूं ढक देनों :॥ १० ॥ विन्यस्यति ॥ फिर वाके ऊपर नवीन मार्जनी बुहारी धरनी फिर तीनो स्त्री कुमारी कन्यासहित ये सर्व लेकरके मनुष्य सबसोयजाँय तब चांडालके घरके समीप जायें ॥ ११ ॥ पूर्वोदितमिति ॥ पूर्व कहा जो विधि ताय करके चुपचापहोय वाणी श्रवण करें जो चांडालके घरमें कोई कछु कहै ताय श्रवण करके अपने कार्यमें वि.
For Private And Personal Use Only