________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७०) वसंतराजशाकुने-पंचमो वर्गः।
आदाय रिक्तं कलशंजलार्थी यदि ब्रजेत्कोऽपि सहाध्वगेन।। पूर्ण समादाय निवर्ततेऽसौ यथा कृतार्थः पथिकस्तथैव ॥ ॥९॥ अंगारभस्में धनरज्जुपंकं पिण्याककासितुषास्थिकेशाः ॥ कृष्णायसा वल्कलकृष्णधान्यपाषाणविष्टाभुजगौषधानि ॥ १०॥ तैलं गुडश्चर्म वसाविभिन्नं रिक्तं च भांडं लवणं तृणं च ॥ तक्रार्गलाशृंखलवृष्टिवाताः कार्ये क्वचित्रिशदिदं न शस्तम् ॥ ११॥
॥ टीका।
रौद्रं न भयजनकं तच्छस्तं मन्तव्यमित्यर्थःnा आदायेति ॥ यदि कोऽपि जलार्थी रिक्तं कलशमादाय अध्वगेन सह व्रजेत् गच्छेत् यथा पूर्ण कलशं समादाय असौ जलार्थी निवर्तते तथा पथिकः कृतार्थः कृत कार्यः स्वगृहमभ्येतीत्यर्थः ॥ ९ ॥ अय पुरतो यानि यानि न शुभानि तानि तान्याह ॥ अंगारेति ।। अंगारः दग्धकाष्ठांशः भस्म क्षारमिन्धनमन्त्रपाकार्थ काष्ठं रज्जुः प्रसिद्धा पंक कर्दमः पिण्याकः पीडयमानतिलाशशेषः कार्पासः प्रसिद्धः तुषः धान्यत्वम् अस्थि प्रसिद्ध केशाः अलकाः कृष्णं वस्तु अयो लोह वल्कलं वृक्षत्वक कृष्णधान्यं माषादि पाषाणः प्रस्तरः विष्ठा मलः भुजंगः सर्पः औषधं प्रतीतं सर्वेषामेवेतरेतरबंदः ॥ १० ॥ तैलमिति ॥ तैलं प्रसिद्धं गुडः इक्षुविकृतिः चर्म त्वक् वा अजिनं वसा नायुविशेषः वा मांसरसः विभिन्नं भमं रिक्तं वा भांडं भाजनं लवणं समुद्रादिप्रभवं तृणं शु
॥ भाषा ॥
रे ते शुभ जाननो ॥ ८ ॥ आदायेति ॥ जो कोई जलको अर्थी खाली कलश लेके वाममार्गीके संग गमन करें फिर जल कलशमें भरके पीछो आवे तो गमन करवेवारो पथिकभी कृतार्थ होयके अपने घर आवे ॥ ९ ॥ अंगारेति ।। बिनाधूमको अंगार १ राख २ इंधन लकडी ऊपला ३ रज्जु ४ कीच ५ तिलकुटा ६ कपास ७ तुष ८ अस्थि ९ खुले हुये केश १० कालीवस्तु ११ लोह १२ वल्कल १३ वृक्षकी त्वचा छाल १४ काले तिल उडदादि १५ पाषाण १६ विष्टा १७ सर्प १८ औषध १९ ॥ १०॥ तैलमिति ॥ तैल २० गुड २१ चाम मजाहीन २२ खाली वा फूटो पात्र २३ लवण २४
For Private And Personal Use Only