________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 61 : ५.१३ ]
दुजणवज्जा
59)
एयं चिय बहुला हो जीविजइ जं खलाण मज्झम्मि । लाहो जं न डसिजइ भुयंगपरिबेढिए चलणे ॥ ११ ॥ 60 ) न सहइ अब्भत्थणियं असइ गयाणं पि पिट्टिसाई । दट्ठूण भासुरमुहं खलसीहं को न बीहेइ ॥ १२ ॥ 61 ) मा वच्चद्द वोसंभं पमुद्दे बहुकुडकवडभरियाणं । निव्वत्तिय कज्जपरंमुहाण सुणयाण व खलाणं ।। १३ ।।
१९
बिभेति । व्यन्तरसर्पेभ्य इव । किंविशिष्टेभ्य उभयेभ्यः । असमत्थमंततंताण । असमर्यानि मन्त्रतन्त्राणि येषु तेऽसमर्थमन्त्रतन्त्रास्तेभ्यः । कुलविमुकाण कुलविमुक्तेभ्योऽकुलीनेभ्यः । पक्षे, अष्टौ नागानां कुलानि तद्व्यतिरिक्तेभ्यः । भोगहीणाण । भोगहीनेभ्यः, पक्षे निः फणेभ्यः ॥ ५८ ॥
"
59) [ एतदेव बहुलाभो जीव्यते यत् खलानां मध्ये । लाभो यन्न दश्यते भुजङ्गपरिवेष्टिते चरणे ॥] एतावदेव (? एतदेव ! ) बहुलाभः खलानां मध्ये निवसद्भिज्जीव्यते । अमुमर्थमर्थान्तरद्वारेण द्रढयति । लाभो यन्न दश्यते पुमान् भुजङ्गपरिवेष्टिते चरणे ॥ ५९ ॥
60 ) [ न सहतेऽभ्यर्थनाम् ( न सहतेऽस्तनितम् ) अश्नाति गतानामपि ( गजानामपि ) पृष्ठमांसानि । दृष्ट्वा भासुरमुखं खलसिंह को न बिभेति || ] ख एव सिंहस्तं दृष्ट्वा को न विभेति । सिंहसाधर्म्यमाह । खलो न सहतेऽम्यर्थनकं, सिंहश्च न सहतेऽभ्रस्त नितं मेघगर्जितम् । अश्नाति गतानामपि पृष्ठमांसानि । गतेष्वन्यत्र पुंसु दुर्वचनं वक्ति | पक्षे, गजानामपि पृष्ठमांसान्यश्नाति भक्षयति । किंविशिष्टं खलसिंहम् । भासुरमुखं भीषणाननम् || ६० ॥
For Private And Personal Use Only
61 ) [ मा व्रत विश्रम्भं प्रमुखे बहुकूट कपटमृतानाम् । निर्वर्तितकार्यपराङ्मुखानां शुनकानामित्र खलानाम् || ] मा व्रजत विश्वासं शुनकानाभित्र खलानां प्रमुखे बहुकूटकपटभूतानां निर्वर्तित कार्यपराङ्मुखानाम् । शुकपक्षे, निर्वर्तितं कार्यं सुरतं तत्र पराङ्मुखानाम् । स्वभाव एव तेषां कृतसुरता योनिस्थित मेहना अपि पराङ्मुखा भवन्ति ॥ ६१ ॥
1 ] बहुभिः कूटकपटै तानाम् ।