________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वजालग्गं
[ 3285 328*5) बाला असमत्तरया रयावसाणम्मि पहरिसी भणइ । किं सुयसि नाह, हं 'सुयमि, किं नु पजत्तकज्जो सि ॥५॥
पेम्मवज्जा। 349*1) पढमारंभमणहरं घणलग्गं माणरायरमणिज्जं ।
पेम्मं सुरिंदचावं व चंचलं झत्ति वोलेइ ॥१॥ 349*2) खणभंगुरेण विसमेण हारिणा दुण्णिवारपसरेण ।
अणवद्वियसम्भावेण सव्वहा होड पेम्मेण ॥२॥ च मुक्तम् । तत्र ईर्ष्या असहनत्वम् । रोपः क्रोधः । महिलात्वं स्त्रीचरित्रम् | मुक्तम् । किं कृत्वा । चलवलयमेखलारवं श्रुत्वा चलनू पुरमेखलाशब्दं समाकर्ण्य । किंविशिष्टं मेखलारवम् । कलकलिरमनोहरम् । मानान्य (?) शब्दसुन्दरम् ।। ३२८*४ ।।
328*5) [बाला असमाप्तरता रतावसाने प्रहृष्टा भणति । किं स्वपिषि नाथ, अहं स्वपिमि, किं खलु पर्याप्तकार्योऽसि ॥ बाला रतावसाने प्रहर्षिता सती भणति । किंविशिष्टा बाला। असमाप्तरता। असमाप्तं रतं यया सा। कि भणति तदाह । हे नाथ त्वं स्वपिषि शयनं कुरुषे किम् । अहं स्वपिमि । किं पर्याप्त कार्योऽसि कृतकृत्योऽसि ॥३२८*५|| ___349*1) [प्रथमारम्भमनोहरं घनलग्नं मानरागरमणीयम् । प्रेम सुरेन्द्रधनुरिव चञ्चलं झटिति अपक्रामति ।। ] चञ्चलं प्रेम झटिति शीघ्र ब्रोडयति ( १ )। किमिव । सुरेन्द्रचापमिव । किंविशिष्टं प्रेम । प्रथमारम्भमनोहरम् । घनलग्नं मनसि सत् रागरमणीयं भवति । सुरेन्द्रचापमपि तथैव ।। ३४९१ ॥
349*2) [क्षणभङ्गुरेण विषमेण हारिणा दुर्निवारप्रसरेण । अनवस्थितस्वभावेन सर्वथा भवतु प्रेम्णा ।।] अनेन प्रेम्णा भवतु पूर्यताम् । किंविशिष्टेन प्रेम्णा। क्षणभङ्गुरेण तत्काल विनश्वरेण । पुन; किंविशिष्टेन प्रेम्णा । विषमेण । पुनरपि किंप्रकारेण प्रेम्णा। हारिणा मनोहारिणा। पुनरपि किंविशिष्टेन । दुर्निवार्यप्रसरेण । पुनरपि किंप्रकारेण प्रेग्णा। अनवस्थितसद्भावेन नैकरंगेण ।। ३४९२ ।।
1 Better to read हुं ( हुँ )( = yes ).
For Private And Personal Use Only