________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणवजा
९५:
-358:३७.९] 355) जइ माणो कीस पिओ अहव पिओ कीस कीरए माणो।
माणिणि दो वि गइंदा एक्कक्खंभे न बझंति ॥ ६ ॥ 356) माणिणि मुएसु माणं जइ वि पिओ सुट्ठ वल्लहो तुज्झ ।
कारणवसेण कूवो न नमइ मुद्धे तुला नमइ ॥ ७ ॥ माणं अवलंबती मरिहिसि मुद्धे वसंतमासम्मि ।
माणो पुणो वि किज्जइ उणदियहा दुल्लहा हुंति ॥८॥ 358) मा पुत्ति कुणसु माणं दइओ हिययम्मि निठुरसहावो ।
कंदलिसरिसं पेम्म ढसत्ति तुटूं न संघडइ ॥९॥
357)
355) [ यदि मानः कस्मात् प्रियोऽथवा प्रियः, कस्मात् क्रियते मानः । मानिनि द्वावपि गजेन्द्रावेकस्तम्भे न बध्यते ॥] यदि मानः किमिति प्रियोऽथवा प्रियस्तर्हि किमिति क्रियते मानः । हे मानिनि, द्व गजेन्द्रावेकस्तम्भे न बध्येते। गजेन्द्रतुल्यौ मानभर्तारौ प्रतीहि, इति सखीशिक्षोक्तिः ॥ ३५५ ।।
356) [ मानि नि, मुञ्च मानं यद्यपि प्रियः सुष्टु वल्लभस्तव । कारणवशेन कूपो न नमति मुग्धे तुला नमति ।। ] हे मानिनि, मुञ्च मानं यद्यपि प्रियः सुष्टु वल्लभस्तव । यतो हे मुग्धे कारणवशेनात्मकार्येण कूपो न नमति, तुला नमति। तुला जलोदञ्चनघटीकाष्ठदवरकं यस्याने ' ढेंकुली' इति कथ्यते ।। ३५६ ॥
357) [ मानमवलम्बमाना मरिष्यसि मुग्धे वसन्तमासे । मानः पुनरपि क्रियते क्षणदिवसा दुर्लभा भवन्ति ।। ] हे मुग्धे, मानमवलम्बमाना वसन्तमासे मरिष्यसि । मानः पुनरपि क्रियते, उत्सवदिवसा दुर्लभा भवन्ति ।। ३५७ ॥
358) [ मा पुत्रि, कुरु मानं दयितो हृदये निष्ठुरस्वभावः । कन्दलीसदृशं प्रेम झटिति त्रुटितं न संघटते ॥] हे पुत्रि, मानं मा कार्षीः । किमिति । यतो दयितो हृदये निष्टुरस्वभावः । तस्मिंश्च तादृग्विधे प्रेम कन्दलसदृशं झटिति त्रुटितं न संघटते ।। ३५८ ॥
For Private And Personal Use Only