________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
वज्जालगं
228 ) वसु मालक लिए निष्भर मयरंदपरिमलुग्गारे । मुंचं तु छप्पया से सकुसुमसेवाकिलेसस्स ॥ २ ॥ 229) वियसंतु नाम गंधुद्धुराउ सेसाउ कुसुमजाईओ । इंदिदिरस्स रणरणयकारणं मालइ च्चेव ॥ ३ ॥ 230 ) मडहं मालइकलियं महुयर दट्ठूण किं पराहुत्तो । एतो पसरइ भुवणंतराइ गंधो वियंभंतो ॥ ४ ॥
[ 228 : २५.२
1
228) [ वर्धस्व मालतीकलिके निर्भरमकरन्दपरिमलोद्वारे | मुञ्चन्तु षट्पदाः शेषकसुमसेवा क्लेशम् || ] हे मालतीकलिके निर्भर मकरन्दपरिमलो - द्वारे वर्धस्व । किमिति । पुष्पितायां त्वयि षट्पदा अशेषकुसुमसेवाक्लेशान्मुच्यन्ताम् | अशेषकुसुमानि परित्यज्य त्वत्कुसुमान्येवास्वादयन्तु, इत्युत्तरार्धः है। भावार्थ: पुनरेषः । हे तामरसाक्षि निर्भर यौवनरमणीये भवन्तीं सर्वावयवरूढप्रौढयौवनामालोक्य सर्वेऽपि युवानस्त्वामेवाहमहमिकया वाञ्छन्तु भविष्यत् प्रौढतारुण्यारूढां नायिकां प्रति सखीवाक्यमिति ।। २२८ ।।
229) [ विकसन्तु नाम गन्धोद्धुराः शेषाः कुसुमजातयः । इन्दिन्दिरस्य रणरणककारणं मालत्येव || ] विकसन्तु नाम गन्धोद्धुराः शेषकुसुमजातय: । इन्दिन्दिरस्य भ्रमरस्य रणरणककारणं मालत्येव । अयमभिप्रायः । भवन्तु सर्वा अपि स्त्रियो, यूनः पुनः कस्यापि कर्णान्तविश्रान्त-लोचना कुचयुगलपीड्यमान चिबुका, चम्पकक लिकागौराङ्गी अवतीर्णतारुण्या युवती रणरणकहेतुर्भवति ॥ २२९ ।।
For Private And Personal Use Only
230) [ली मालतीकलिकां मधुकर दृष्ट्वा किं पराङ्मुखः । इतः प्रसरति भुवनान्तराणि गन्धो विजृम्भमाणः ॥ ] हे मधुकर लची मालतीकलिकामवलोक्य किं पराङ्मुखः संजातः । यत इतो मालत्या गन्धः प्रसरति । किं कुर्वाणः । भुवनान्तराणि विजृम्भमाणो व्याप्नुवन् । अयं भावः । कश्चिचुषानवतीर्णतारुण्यां नायिकामालोक्य तामकामयमानस्तत्सख्योध्यते । हे युवन् किं पराङ्मुखः संजातोऽसि । अस्याः स कोऽपि यौवनभरः समुल्लसिष्यति येन सकलनगरीनारीरप्यतिशयिष्यते ॥ २३० ॥