SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .--227 : २५.१] मालईवज्जा 225) जं जीहाइ विलग्गं किंचि वर मामि तस्स तं दिलं । थुक्केइ चक्खिळ वणसयाह करहो धुयग्गीवो ॥६॥ 226) अन्नहि पि न पत्ता पत्तलकरहेहि करह सा वेल्ली। को एसो तुज्य गहो जं चिंतसि विझसिहराई ॥७॥ २५. मालईवज्जा [मालतीपद्धतिः.] 227) तह तुह विरहे मालइ महिमंडलवंदणिजमयरंदे । परिझीणं भमरउलं जह जायं मसयचंदं व॥१॥ 225) [ यज्जिह्वायां विलग्नं किंचिद्वरं सखि तस्य तदृष्टम् । थूत्करोल्यास्त्राद्य वनशतानि करभो धुतग्रीवः ।।] कश्चन युवा कांचनापूर्वां तरुणीमवलोक्य विरुद्धामपि पूर्वर मितामनाकलय्य तामलभमानः शिरो धूनयति । थूत्कारयति च । तं तादृशमवलोक्य सा रूपवती सखी प्रति बते । हे मामि सखि, करभो धुतप्रीवो वनशतानि चक्खिडं आस्वादयितुं थूत्करोति । युक्तोऽयमर्थोऽथवा यद्विरुद्धमपि यस्य जिह्वायां लग्नम् । कोऽर्थः । यस्मै यद्रोचते तस्य तदेव वरम् इति भावः ।। २२५ ॥ 226) [ अन्यैरपि न प्राप्ता कृशकरभैः करभ सा वल्ली। क एष तव ग्रहो यश्चिन्तयसि विन्ध्यशिखराणि ।।] हे करभ, अन्यैरपि कृशकरभैरियं वल्ली न प्राप्ता । क एष तव ग्रहो यच्चिन्तयसि विन्ध्यशिखराणि । को भावः । इयं मत्सखी रन्तुम् अकुण्ठसौभाग्ययुक्तैरपि युवभिन प्रापे । त्वद्भाग्याच्च स्वयमप्यागतामिमां किमित्यवगणयसि यदन्यामवलोकयसि । को नाम तवाग्रह इति ध्वन्यते ।। २२६ ॥ 227) [तथा तव विरहे मालति महीमण्डलवन्दनीयमकरन्दे । 'परिक्षीणं भ्रमरकुलं यथा जातं मशकवृन्दमिव ।। ] हे मालति जाति, तव 'विरहे, महीमण्डलवन्दनीयमकरन्दे, तथा क्षीणं कृशीभूतं भ्रमरकुलं यथा मशकवृन्दमिव जातम् इत्युत्तरार्धः । भावार्थस्त्वयम् । कांचन नायिकामागत्य दूती वदति । हे महीमण्डलस्थितयुवप्रार्थनीयसौभाग्यवति, त्वद्विरहे सकलमपि युवजातं तथा तानवमवलम्बते यथा द्वित्रिषु दिनेष्वनिष्टभाग्भविष्यति ॥ २२७ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy