________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
--204 : २२.१ ]
202) मा जाणह जह' तुंगत्तणेण पुरिसाण होइ सोंडीरं । महो व मदो करिवराण कुंभत्थलं दलइ ॥ ३ ॥ -203) बेणि वि रणुत्पन्ना बज्झति गया न चेव केसरिणो । संभाविज्जइ मरणं न गंजणं धीरपुरिसाणं ॥ ४॥ २२. वाहवजा [ व्याधपद्धतिः ] 201) एकसरपहरदारियमाइंदगईदजुज्झमाभिडिए । वाहि न लजसि नच्चसि दोहग्गे पायडिज्जते ॥ १ ॥
वाहवजा
Acharya Shri Kailassagarsuri Gyanmandir
202 ) मा जानीत यथा तुङ्गत्वेन पुरुषाणां भवति शौण्डीर्यम् । लघुरपि मृगेन्द्रः करिवराणां कुम्भस्थलं दलयति ॥ ] पुरुषाणां तुङ्गत्वेन शौण्डीर्यं बलं भवति इति मा स्म जानीत । तुङ्गत्वेन न किमपि सिध्यति । मृगेन्द्रो लघुरपि करिवराणां हस्तिराजानां कुम्भस्थलं दारयति । केवलं तेज एवं कारणं न तूच्चैस्त्वम् । मडहो लघुः । देशीयपदमिदम् । अग्रेऽपि वक्ष्यति मालतीपद्धतौ यथा 66 मडहा मालइकलिया " ( गाथा २३० )
1 B, C, G, I, Laber जह
५५.
इति ॥ २०२ ॥
203) [ द्वावप्यरण्योत्पन्नौ बध्यन्ते गजा न चैव केसरिणः । संभाव्यते मरणं न कलङ्को धीरपुरुषाणाम् ||] बध्यन्ते गजा न चैत्र केसरिणः । उभयेऽपि किंविशिष्टाः । अरण्योत्पन्नाः । यतो मरणमेव संभाव्यते न गंजन विगोपकं धीरपुरुषाणाम् ।। २०३ ।।
204 ) [ एकशर प्रहारदारितमृगेन्द्र गजेन्द्रयुद्धे प्रवृत्ते । व्याधि न लज्जसे नृत्यसि दौर्भाग्ये प्रकट्यमाने ।। ] एकशरप्रहारदारितमृगेन्द्र गजेन्द्रयुद्धे प्रवृत्ते, हे व्याधि व्याधवनिते, न लज्जसे, यन्नृत्यसि । यतः दौर्भाग्ये प्रकटीक्रियमाणे । अयं भावः । एकशर प्रहारपातित सिंहगजं भर्तारमवलोक्य शौर्यतो वनितास्मीति गर्वायमाणा व्याधवधूर्ननर्त । तां च नृत्यन्तीं • समवलोक्य तत्सखी ब्रूते । हे मूढे, स्वत्पतिश्चेत् त्वय्यासक्तो भवेत् ततः किं, बहुभिरपि शरप्रहारैर्हरिणं हन्ति । अत एव त्वय्यननुरक्तत्वाच्छक्ति-क्षयाभावे गजेन्द्रमृगेन्द्रा वेकेनैव शरेण जघान । अतस्तव नर्तनं निजदौर्भाग्य: प्रकटनाय प्रत्युतेदमिति । प्राकृते पहरपहारी शब्दौ द्वावपि भवतः
॥ २०४ ॥
For Private And Personal Use Only